पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/242

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः। 13] छायातोऽर्कानयनविधिः २१७ [वसन्तादिऋतुषट्कम्] द्वौ द्वौं वसन्तादृतवोऽत्र राशी मेषादितस्तिग्ममयूखचारात् ।

ग्रीष्मश्च वर्षा शरदाह्वयोऽन्यो हेमन्तसंज्ञश्शिशिरः षडत्र ॥ २८ ॥

[चैत्रादिमासानां मध्वादिसंज्ञाः] चैत्रादिमासा मधुमाधवाख्यौ शुक्रः शुचिश्चैव नभोनभस्यौ । इषस्तथोर्जश्च सहस्सहस्यौ तपस्तपस्यावृतवोऽथ वेदात् ॥ २९ ॥ छायातोऽर्कानयनविधिः त्रयोदशः ॥ Text of Ms. A :

[28] द्वौ द्वौ वसन्तादृतवोत्र राशी मेषादितस्तिग्ममयूखवारा: 

ग्रीष्मो च वर्षा शरदाह्वपोन्पो हेमन्तसंज्ञश्चिशिरष्वडत्र [29] चैत्रादिमासा मधुमाधवाख्यौ शुक्रः शुचिश्चैव नभोनभस्पौ इषस्तथोर्जश्च सहस्महस्पौ तपस्तयस्पावृतवोथ वेदात् ।। छायातोः:कायनविधिः प्रयोदश: । Ms. B : 28 ।d °शिरष्षडत्र 29b शुक्लः 29d चेदात् ॥