पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/238

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 13] छायास्तोऽर्कानयनविधिः २१३ [चन्द्रास्तोदयकालात् तिथिज्ञानम्] अस्तोदयं तु याभिः शुक्लेतरपक्षयोः प्रयातीन्दुः ॥

रात्रौ घटिकाभिस्ता दलितास्तिथयो विनिदिष्टाः ॥ १५ ॥

[रविभुजतः रविज्ञानम्]

सवितुर्भुजगुणचापं प्रथमपदे भास्करस्तदेव स्यात् ।
भार्धाच्च्युतं द्वितीये सभार्धमपरे भतश्च्युतं चान्त्ये ॥ १६ ॥

[ऋतुलक्षणानि]

ऋतुलक्षणात्पदानां समभिव्यक्तिर्यतः स्फुटा भवति ॥

ऋतुलक्षणान्यतोऽहं संक्षेपात् कानिचिद्वक्ष्ये ॥ १७ ॥ [वसन्तऋतुलक्षणम्]

विकचविचित्रपुष्पतरुसौरभसंवलितानिले मधौ मधुकरवृन्दगीतविरुते कलकोकिलकोमलस्वने । 

मलयजपङ्कजे हिमरुचिस्फुरतारलतास्त्रगुज्ज्वले प्रवरविलासिनीजनकरोज्झितवार्यभिषिक्तमानिनि ॥ १८ ॥ Text of Ms. A : [15] - स्तो • योका-ि क्लेतरय - योः प्रयातींदुः रात्रौ घटिकाभिस्ता दलतास्तिथयौ विर्निदिष्ठः [16] सवितु°र्णचापं प्रथमयदे भांस्करस्तदेव स्पात् भावा - तं द्वितीचे सभावमयरे तयश्च्पुतं चान्त्पे । [17] ज्ञनुलक्षणोः पचनां समभिव्यक्तिर्यतः स्फुटा भवति ज्ञतुलक्षणान्पेताहं संख्येयात्कानिचेद्वृक्ष्ये । [18] विकचविचित्रयुष्पतरुसौरभसंवलितानिले मघौ मधुकरचंद्रगीतविरुते कलकेविलकोमलस्वने मलयजयंकजै हेमरुचिरास्छरतारलतास्रगुज्ज्पल प्रकचिलासिनीजनकरोज्कितवार्यभिषिकुमानिनि Ms. Bः 15 d विर्निदिष्टः 17 a ज्ञतु° 18 a पुष्प°