पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/236

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

* परिच्छेदः 13] छायातोर्कानयनविधि: 211 [द्युज्याचरनृतल]हतिरवलम्बगुणसमवृत्तनूभिर्गुणिता । पलजीवाग्रानृजिनांशजीवाहतेर्ह्रता दोर्ज्या ॥ ५ ॥ वाऽक्ष ज्याघ्नस्समना जिनांशजीवाहृतोऽर्कबाहुज्या । तद्धृतिरक्षज्याघ्ना मिथुनान्ताग्रोद्धृता वा स्यात् ॥ ६ ॥ लम्बज्यातद्धृतिवधात् मिथुनान्तसमनृहृतादिनभुजज्या ॥ तद्धृतिपालगुणघातोऽर्कत्रोऽक्षश्रुतिजिनांशवधहृद्वा ॥ ७ ॥ [त्रिज्यासमनर]घातोऽक्षगुणकुज्येष्टनृतलाहतः पृथक् । भक्तस्त्रिज्याग्राधृतिगुणया जिनांशमौर्व्या दोर्जीवा ॥ ८ ॥ त्रिज्याग्रानृहतिर्वा धृतिजिनलवगुणवधोद्धृता दोर्ज्या । भावृत्ताग्रात्रिज्यालम्बज्यासंहतिर्भक्त्ता ॥ ९ ॥ भाकर्णान्त्यापमज्यावधेन लब्धं रवेर्भुजज्या वा । Text of Ms. A : [5] हतिरवलंछगुणसमनत्तनूभिर्मुणिता यलजीवाग्रानृतलेजिनांशजीवाहतैहता दौर्ज्पा [6] वारवाक्षज्पाघ्रस्सामनाजिनांशजीवाहृतोर्कछहुज्पा उद्वृतिरक्षज्पाघ्ना मिथुनात्ताग्रोद्द्वत्ता वा स्पात्

[7] लछज्पातदुतिवधान्मिथुनान्तसमनृहृतादिनभुजज्पा

तद्वृतिपलगुणद्यातोर्कध्रोक्षश्रुतिजिनांशवंधकृता [8] घातोलगुणमथेष्टनृभिराहताः पृथग् भक्तः त्रिज्पाग्रावृतिगुणया जिनांशमौर्व्पा दौजीवा ॥

[9] त्रिज्पाग्रात्रिहतिर्वा धृतिजिनलवगुणवधोद्वृता दौर्ज्पा

भावृत्ताग्रात्रिज्पालंछज्पासंहतिर्भक्त्ता ॥ Ms. B : 5 d °जितांश° 6d मिथुनान्ताग्रो°