पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/219

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

194 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे अधिकार: III फलवियुगन्त्योत्क्रमगुणधनुर्नतं दिनदलात्त्रिभज्यायाः ॥ अधिकात्क्रमेण चापत्रिगृहकलायुङ्नताः प्राणाः ॥ २९ ॥ द्युदलेष्ट[कर्ण]विवरहतान्त्येष्टश्रुतिहृता फलोनस्य । अन्त्यस्य धनुः प्राग्वच्चरदलयुक्तोनमुन्नतकम् ॥ ३० ॥ त्रिज्यागुणितः शङ्कुः मध्यज्यालम्बहृत्फलस्य धनुः ॥

द्युदलघटीघ्नं तिथि[१५]भिविभाजितं वोन्नतः कालः ॥ ३१ ॥

त्रिगुणचरार्धगुणाभ्यां हता धृतिर्द्युगुणकुजगुणहृदन्त्या । चरदल[गुण]वियुक्समेता धनुः स्यात्प्राग्वदुन्नतकम् ॥ ३२ ॥ कुज्या धृतेर्न शुद्धयति चेत्तद्विवरं समुक्त्तगुणनिघ्नम् ॥ हारहते फलधनुषा चरार्धहीनं समुन्न्तकम् ॥ ३३ ॥ Text of Ms. A : [29] फलवियुगंत्पोक्रमगुणधनुर्ततं दिनदलास्त्रिभज्पायाः अधिकात्क्रमेण चापत्रिगृहकलाधुंनीती: प्राणाः। [30] द्युदलेष्टविवरहतात्पेष्टश्रुतिह्रता फलोनस्प त्रिगुणस्प धनुः प्राग्वच्चरदलयुत्क्रोनमुन्नतकं ।

[31] त्रिज्पागुणिताः शंकु मंध्पज्पालंवहृत्फलस्प धनुः

SSSMSSSSSS LSS गोलविदां लग्नमत: प्रोक्तवत्कालः द्युदल ----------- प्तधनुः

द्युदलघटीघ्नं तिथितिविभाजितं वोन्नतः कालः
[32] त्रिगुणतरामगुणाभ्पां हता धृतिर्घुगणभूतगुणहृदत्पा चरदलविघुक्समेता धनुः - - - - प्राग्वदुन्नतकं।
[33] कुज्पा धृतेर्न शुद्धयति चेत्तद्विवर समुत्कगुणामिर्घ्ना

हारहते फलयुक्वरार्धहीनं समुन्नतकं Ms. B: 29 b ०र्नतं 29 d ०कलीधुंनीती: 30 b cहृता