पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/212

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 9] द्युदलभादिविधिः 187

अक्षविलोमज्याऽस्रं [०] त्रिज्या लम्बज्यकैव सम्प्रोक्ता ।

त्रिज्यैव भवेद्द्युदले नष्टच्छाये धृतिः स्पष्टा ॥ ४७ ॥ [आनन्दपुरदशपुरयोः धृतिः] अक्षश्रवणाभ्यस्ता त्रिज्या वा द्वादशोद्धृता भवति ।

[अय]नान्तगे रवाविह दिनदलभानौ दशपुरे च ॥ ४८ ॥

द्युदलभादिविधिर्नवमः ॥ Text of Ms. A : [47] क्षविलोमज्पोघ्रा त्रिज्पा लंवज्पयो --प्तयुता त्रिज्पैव भवेभवेद्यदले नष्टश्छाये धृतिस्पष्ट। [48] अक्षश्रवणाभ्पस्ता त्रिज्पा वा द्वादशाद्धृता भवति --- नातरगे रवाविह दिनदलभानो दशपुरे व । घुदलभादिबिधिर्नवमः । Ms. B : 47 धृतिस्पष्टा