पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/208

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेद: 9) द्युदलभादिविधिः 183 [दृग्ज्यानृतलयोः साधनम्] द्विज्याधुतिकृतिवियुतेरप्राप्तं चाप्रयोनयुग्दलितम् ॥

नरतलवृग्ज्ये याम्ये दृग्ज्यानृतले तथा सौम्ये । २७ ।

त्रिज्याधुत्योर्योगस्तदन्तरेणाहतोऽग्रया भक्त: ।

लब्धफलाग्राम्यां वा प्राग्वन्नृतलं तथा दृष्ज्या ॥ २८ ॥

[दिनार्धच्छाया-छायाकर्णौ] द्युज्यन्त्याघाताप्तत्रिगुणकृतिगुणपलकर्णो भकर्णः ॥ त्रिज्याऽक्षकर्णगुणिता [स्वधू]तिभक्ता वा द्युदलकर्ण: ॥ २९ ॥ अग्रा[त्रिगुण]हतिरक्षश्रुतिहता द्युगुणान्त्ययोर्वधविभक्ता । भावृत्ते स्वाग्राऽग्राक्षश्रवणहता धृतिविभक्ता वा ॥ ३० ॥ तत्पलभाविवरैक्यं द्युदलाभा सौम्ययाम्ययोर्वा स्यात् । दृग्ज्याऽक्षश्रुतिगुणिता तद्धृतिभक्ता द्युदलभा वा ॥ ३१ ॥ Text of Ms. A : [27] त्रिज्पाध्रृत्तिकृतिवियुतेरग्राप्तं चाग्रयोनयोनयुग्दलितं । नरतलदृग्ज्पे पाम्पे दृग्ज्पानृतले तथा सौम्पे घाम्पे युतिर्दुग्ज्पा [28] त्रिज्पाधृत्पोर्योंगस्तदंतरेणाहतोग्रया भक्तः । लव्दफलाग्राभ्पां वा प्राग्वग्न्नृतलं तथा दृग्ज्पा [29] द्युज्पांत्पाघाताप्तं त्रिगुणकृतगुणयलकर्ण तकर्ण: त्रिज्पाक्षकर्णगुणिता - तिभक्त्ता वा घुदलकर्ण:

[30] आग्राकृतिरकश्रुतिहताम्पुगणात्पयोर्वधविभक्ता

भावृत्ते स्वावाग्राक्षश्रवणहता धृति । वेभक्ता

[31] तत्पलभाविवरैक्यं घुदलाभा सौम्पयाम्पयोर्वा स्पात्

दृग्ज्पाक्षश्रुतिगुणिता तद्धृतिभक्ता घुदलभा वा Ms. B : 31 d तद्वृति