पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/202

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 8] लग्नादिविधिः १७७ स्पष्टाः स्युर्मेषादौ कर्कटकादौ तु भार्धतः शुद्धाः ॥ जूकादौ भार्धयुताः मकरादौ शोधिताश्चक्रात् ॥ २४ ॥

लग्नाच्चैवं प्राणाः सूर्यकलाभिरूनितास्तथाऽल्पाश्चेत् ॥
खखषड्घनेन[ २१६००] युक्ता विशोधयेल्लग्नकालः स्यात् ॥ २५ ॥

[कालाशज्ञानम्]

उदयाः षष्टिविभक्तः कालांशा नाडिकाः षडभ्यस्ताः । 

दशभिर्वा विघटीभिः कालांशो वाऽसुभिः षष्टच्या ॥ २६ ॥ लग्नादिविधिरष्टमः । Text of Ms. A : 24 स्पष्टाः स्पुर्मेषादौ कर्कयदौ तु मूर्धतः शुद्धाः

जूकादौ भावयुता: मकरादौ शोधिताश्चक्राल्

[25] लग्नाश्चैवं प्राणास्सूर्यभागे ऊनितास्त्वथाल्पाश्चेत् खखषड्वनेन युक्ता विनोदयेल्लग्नकालस्स्पात् [26] उदयाष्पष्टविभत्काः कल्पंशनाडिकाष्पडभ्पस्ताः दशभिर्वा विघटीभिः कालांशो वासुभिष्पष्टया। लग्नादिविधिरष्टमः ।