पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/169

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

144 वटेश्वरसिद्धान्ते त्रिप्रश्नाधिकारे [अधिकार: III [ततः द्युदलाभाऽक्षाभाज्ञानम्] याम्योत्तरलेखायां द्युदलाभा वृत्तशङ्कुविवरं यत् । याम्यमुदक्चाक्षाभाऽजतुलादिगते [च दिन]द्युतौ ॥ १० ॥ [छायाकर्णः छाया च] शङ्कुप्रमाणवर्गाच्छायावर्गान्वितात्पदं कर्णः ॥ कर्णकृतेः वाऽर्क[१२]कृतिं विशोध्य मूलं प्रभा भवति ॥ ११ ॥ [विषुवच्छायासाधनविधयः]

कार्यं स्थण्डिलमथवा वृत्तं जलसिद्धमस्तकं विपुलम् ॥ भगणांशाङ्कतपरिधिं स्वस्कन्धसमुच्छ्रुितं च सिद्धाशम् ॥ १२ ॥ तस्यापरभागस्थो दिग्योगन्यस्तदृष्टिरुद्यन्तम् ।

पश्यति यत्र खरांशुं तद्भागज्या रवेरग्रा ॥ १३।। अग्रा द्वादशगुणिता क्रान्तिज्याभाजिता पलश्रवणः । श्रुतिशङ्क्वन्तरगुणितात्तद्योगान्मूलमक्षाभा ॥ १४ ॥ Text of Ms. A

[10] याम्पोतरलेखायां द्युदलाभा वृत्तशंकुविवरं यत्

याम्पमुदघाक्षाभाजनुलादिगताघुते। [11] रंशंकुप्रमाणवर्गाश्छायावर्गान्दितात्पदात्कर्ण: कर्णकृतेः वाकुकृतिं विशोध्प मूलं प्रभा भवति ।

[12] कार्यास्छंडिलमथवा वृतं जलसिद्धमस्तकविपुलं

भगाणाशांकितपरिधिस्वस्कंधवसमुश्छितं च सिद्धांशं । 13 तस्पापरभागछादिग्पोगन्पस्तदृष्टिभाद्यत्तत् । पश्पति पत्र खरांशुं तद्भागज्पा रवेरग्रा ।

[14] अग्रा द्वादशगुणिता क्रांतिज्पाभांजिता पलश्रवणः

श्रुतिशंक्वांतरगुणितातद्योगान्म्रलमक्षाभा । Ms B: 10 c घाम्पमुदद्याक्षा० 10 d •जतुलादिगताद्युते 12 b °स्तकं वि०