पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/163

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

7. प्रश्नविधिः [उपोद्घातः] स्पष्टगतावपि वच्मि प्रश्नाध्यायं वि[द्व]द्दैवविदाम् । मतिकुमुदिनीशशाङ्कं कुतन्त्रविन्नागसिहं यत् ॥ १ ॥ [प्रश्नाः]] " यः कोटिभागैः [कुरुते] भुजांशान् भुजांशकैर्वेत्ति च कोटिभागान् ॥ भुजञ्च केन्द्राद् द्युच[रस्य] केन्द्रान्मध्यं स वेद स्फुटखेटचेष्टाम् ॥ २ ॥ कोटच्यंशकैर्यः कुरुते भुजज्यां बाह्नशाकैर्वेत्ति च कोटिजीवाम् ॥ बाहुज्ययाऽग्रामनया च दोर्ज्यां जानात्यसौ स्पष्टगति ग्रहाणाम् ॥ ३ ॥ क्रमज्यया स्वोत्क्रममौर्विकां तया निजक्रमज्यां श्रवणं विनाग्रकम्। भुजज्यया च श्रवणाच्च कोटिकां तया च दोर्ज्यां कुरुतेऽस्तधीमल: ॥ ४ ॥ Text of Ms. A : [1] स्पष्टगतावपि वच्मि प्रश्माध्पायं विद"दैवविदां । मतिकुमुदिनीशशांकं कुतंत्रविन्नागसिंहं यत् । [2] घः कोदिभागै - - - भुजांशान् भुजांशकैर्वेत्ति च कोटिभागान् । भुजश्च केन्द्र द्युचकेन्द्रात्मन्मध्पे च वेद स्पुटखेटचेष्टां ।

[3] कोद्यंशकैद्यंः कुरुते भुजज्पां वाह्वंशकैर्वेत्ति च कोटिजीवं ।

वाहुज्पयाग्रामनया व दोर्ज्पा जानाम्पसौ स्पष्टगति ग्रहाणां ।

[4] क्रमज्पया स्वोत्क्रममौर्विकां तथा निजक्रमज्पां श्रवण विना ग्रहा:

भुञ्जज्पपा व श्रवणाच्च कोटिकां तया वा दोर्ज्यं कुरुतेस्तधीमलः ॥ Ms. B : 1 b प्रश्नाध्पायं 2 a कोटि भागै: