पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/147

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२२ वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकार: II [प्रकारान्तरेण मन्दशीघ्रफलसाधनम्] फलखण्डकसंख्ययोर्हतिः फलयुग्धीनमनल्पकाल्पयोः ।

पदयोर्धनमत्र केन्द्रकं फलमेतैरनुपाततोऽथवा ॥ ५ ॥

[वक्रग्रहस्य केन्द्रगतिः।]

केन्द्रभुक्तिनिहतं कलान्तरं खेटहारभजितं यथोक्तवत् ॥ 

वक्रजं मृदुफलं गताविह व्यत्ययेन गदिताद्धनक्षयात् ॥ ६ ॥ [ वक्रानुवक्रकेन्द्रसाधनम्।]

[ प्रथमविधिः] 

केन्द्रभुक्तिकलिकाहतं धनुः शीघ्रभुक्तिभजितं पदेऽल्पके ।

यस्य केन्द्रविवरस्य तत्समं षड्भयुक्तमनुवक्रकेन्द्रकम् ॥ ७ ॥

[द्वितीयविधिः]

त्रिज्याघ्ना केन्द्रभुक्तिश्चलगतिभजिता वक्रकर्णस्ततोऽपि प्राग्वद्बाह्वग्रजीवे भुजफलधनुषो भोग्यजीवाहतोऽसौ ।
आद्यज्याहृच्च कर्णः पुनरखिलमिदं कर्म यावत्स्थिरत्वं कोटिज्याधन्वयुक्तं त्रिभमिह गदितं वक्रकेन्द्रं ग्रहस्य । ८ ।

Text of Ms. A : [5] फलखंडकसंख्पपा हतं फलयुग्धीनमनल्पकाल्पयोः पदयोर्धनमत्र केन्द्रकं फलमैतेरनुपातत्त्तोथवा ।

[6] केन्द्रमुक्तिनिहितं कलांतरं खेटहारमर्जितं यथोक्तवत्।
वक्रजं मृदुफलं गत्ताविह व्पत्पयेन गदिताद्धतक्षयात् । 

[7] केन्द्रभुक्तिकलिकहतं धनु- शीघ्रभुक्तिभजितं पदेल्पके । यस्प केन्द्रविवरस्प तत्समं षड्भपुक्तमनुवक्रकेन्द्रकं । [8] त्रिज्पाघा केन्द्रभुक्तिश्चलगतिभजिता वक्रकर्णस्ततोपि । प्राग्वद्वाह्नग्रजीवे भुजफलधनुषो भोग्पजीवाहतोसौ

आद्यज्पाहृच्च कर्णः पुनरखिलमिदं कर्म यावत्स्छिस्त्वं कोटिज्पाधन्वयुक्तं त्रिभमिह गदितं वक्रकेंद्रे ग्रहस्प ।