पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/143

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

118 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [अधिकार: II [ज्यातः चापानयनम्] त्रिभवनगुणयुक्तो ज्यातुरीयोऽत्र हारो विशिखरविखचन्द्वै[१०१२५]स्ताडितायास्तु मौर्व्याः । खखविशिखखवेदै[४०५००]राहता वेष्टजीवा त्रिभगुण-कृति[४]घात-ज्यासमासेन भक्ता ॥ ४ ॥ फलहीना नवतिकृति[८१००]स्तन्मूलेन च वजिता नवतिः [९०] ॥ शेष धनुरथवा यत्त्रिज्याखण्डैर्विनैव फलम् ॥ ५ ॥ [ग्रहाणामष्टधा गति:} स्फुटमध्यमखेचरान्तरं दलितं मध्यखगात्स्फुटेऽल्पके ।

स्वमृणं महति स्फुटोनिते स्वचलेऽस्मिन् भवनेषु खेचरः ॥ ६ ॥ अतिशीघ्रगतिः शीघ्रो निसर्गकस्तदनु भार्धयोराद्ये ॥ मन्दोऽपरेऽतिमन्दो वक्री भे तदनु भेऽतिवक्रगः ॥ ७ ॥ चक्रच्युतेऽपि चास्मिन् ग्रहचारश्चैष एव निदिष्टः ॥
चक्रच्युतस्य मन्दा ग्रहस्य भुक्तिः कुटिलसंज्ञा ॥ ८ ॥

Text of Ms. A : [4] त्रिभनवगुणधुत्कौ ज्पांतरीयोत्र हारो विशिखरविखचंद्रैस्तोडितायास्तु मोर्व्पा: खखविशिखखवेदैराहतो वेष्टजीवा त्रिभगुणकृतिघातज्यासमासेन भत्का ।

[5] फलहीना नवतिकृतिस्तन्मूलेन न च वर्जिता नवतिः

शेषधनुरंधवा घत्त्रिज्पाखंडैविनैव फल।

[6] स्फुटमध्पमखेचरांतरं दलितं मध्यखगात्स्फुटोल्पके

स्वमृणं महति स्फुटानिते स्वदलेस्मिन् भवतेपु खेचरः ।

[7] अतिशीघ्रगतिः शीघ्रा रिसर्गतस्वदनु भावयोराद्ये ।
मंदो परेतिमंदो वक्री भे तदमु भेतिवक्रगाः ।
[8] चक्रच्पुतेपि चास्मिन्ग्रहचारौष मेव निर्दिष्ट:

चक्रच्पुतस्प मंदा ग्रहस्य भुक्तिः कुटिलसंज्ञा । ।