पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/141

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

116 वटेश्वरसिद्धान्ते स्फुटगत्यधिकारे [ अधिकारः II [शीघ्रमन्दफले] चलमन्ददोर्गुणौ। वा निजान्त्यफलजीवया हतौ भक्तौ । कर्णव्यासाधाभ्यां फलधनुषी [शीघ्रमन्दफले] ॥ २० । [स्पष्टग्रहात् मध्यग्रहानयनम्]

शीघ्रात्स्पष्टग्रहोनाच्चलफलमखिलं खेचरे स्यादनष्टे व्यत्यासात्स्पष्टसंज्ञे धनमृणमसकृत्स्यान्मृदुस्पष्टसंज्ञः ॥ तस्मान्मन्दोच्चहीनान् मृदुफलमपि च व्यत्ययादेव कृत्स्नं 

तत्रानष्टे क्षयःस्वं गदितवदसकृन्मध्यमोऽन्यच्च तस्मात् ॥ २१ ॥ प्रतिमण्डलस्पष्टीकरणविधिस्तृतीयः॥ Text of Ms. A : [20] चलमंददोर्गुणी वा निजांत्पफलजीवया हती भक्तों कर्णव्पासार्धाभ्पां फलधनुषी [21] शीघ्रात्स्फष्टग्रहोनाच्चलफलमंखिलं खेचरस्स्पादनष्ठे व्पत्पासात्स्पष्टसंज्ञे धनमृणमसकृत्स्पान्मृदुःस्पष्टसंज्ञः । तस्मान्मंदोच्चहीनान्मृदुफलमपि चच्पत्पयदिव कृत्स्नं

तत्रानेष्ट क्षयस्स्वं गदित्तवदसकृन्मृध्पमौन्पश्चत्तस्मात्

प्रतिमंडलस्पष्टीकरणविधिः ।