पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/137

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3. प्रतिमण्डलस्पष्टीकरणविधिः [उपोद्घातः] इदमभिहितं ग्रहाणां स्पष्टीकरणमुच्चनीचविधिनैव ॥ प्रतिमण्डलाख्यमधुना स्पष्टीकरण प्रवक्ष्यामि। १ ।। [अन्त्यफलम्] परिधिगुणा त्रिभजीवा भगणांश[३६०]विभाजिताऽन्त्यफलजीवा ॥ नीचोच्चव्यासदलं शरासनं चास्य परम फलम्। २ ।। [ कर्णसाधनविधयः] मृगकर्क्यादौ केन्द्रे कोटयन्त्यफलज्ययोर्युतिविशेषः । तद्बाहुज्याकृत्योस्समासमूलं श्रुतिर्भवति ॥ ३ ॥ स्पष्टकोटिकोटिज्याकृतिविवरात्त्रिगुणवर्गसंयुक्तात् ।

[विवरादपि] मूलं कणों वा स्याद् विनैव बाहुज्याम् । ४ ।t

Text of Ms. A : [1] इदमभिहितं ग्रहाणां स्पष्टाकरणमुच्चनीचविधिनैव प्रतिमंडलाख्पमधुना स्पष्टीकरणं प्रवक्ष्यामि ।

[2] परिधिगुणास्त्रिभजीजा भगणा । 

शविभाजितांत्पफलजीवा । नीचोच्चव्यासदलं शरसनं चास्य परमफलं ॥

[3] मृगकंच्पादौ केंदे कोटयत्पंफलज्पयोर्युतिविशेष:

तद्वाहुज्पाकृत्पोस्समासमूलं श्रुतिर्भवति । {4] स्फुटकीटिकोटिवाकृतिविवरात्त्रिगुणवर्गसंयुत्कात् मूलं कणों वा स्पाद्विनैव पाहुज्पां। Ms. B : 1 b स्पष्टी