पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/122

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः l l सूर्याचन्द्रमसोः स्फुटीकरणविधिः 97 । [चतुर्थं रूपम्] विवरा[र्ध]हतसमेतो विकलश्चापांशकस्तदूनयुक्त: । भुक्तगुणो हीनयुतो [भुक्ते]तरजीवा[न्तरार्ध]हत्या ॥ ६९ ॥ [लब्ध]स्स्वार्धसङ्गुणो वसु[८]गुणो[ऽपि तद्] दृढो वाच्यः । विकलधनुरंशशशि[1]युतविवरार्धवधोनयुग्गिता जीवा || द्विघ्राऽन्तरयुतहीना तद्वर्गदृढान्तरवसु[८]लवः ॥

[विकलश्चापांशगुणो विवरहृतो वा विकलजीवा] ॥ ७१ ॥

[पञ्चमं रूपम्] विकलदलचापयोगाज्यान्तरनिहतात् स्वचापलब्धहतात् । विकलाच्चापविभक्तादाप्तं लब्धाद्युतं राशिः ॥ ७२ ॥ भुक्तज्यान्तरसंयुतिविवरहताद्विकलतस्स्वचापाप्तम् ।

तद्युतहीनं विवरेण राशितद्विवरयुतिविकलजीवम् ॥ ७३ ॥

Text of Ms. A : [69] विवराहतसमेतौ विवरश्चापांशकस्तदूनघुत्तः भुक्तगण Tunindicated gap 70) स्स्वार्धसंगुणो हीनः युक्तातरजीवाहत्पा वसुगुणो दृढो वा ज्पा । विकलधनुरंश्रशशियुतविवरद्विवधोनयुग्धता जीवा [71] दृद्विघांतरघुतहीना तद्वर्यदृठांतरविचरवसुलवः ॥ ॥ 72 पिवरदलचापयोगाज्ज्पांतरनिहतात्स्ववापलव्दिधुतात् विकलश्चापविभत्कादाप्तं लव्दा । घुतं राशिः । [73] भूतज्पांतसंयतिविवरहताद्विकलतस्खचापाप्तं । तघुतिहीन विवरेण राशितद्विवरमथ विकलजीवं। MS. B : 71 b °विवर° 72 a पिवरदभचाप