पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/120

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

परिच्छेदः 1] सूर्याचन्द्रमसोः स्फुटीकरणविधिः 95 [तृतीयविधिः] वांशादि तिथि[१५]लब्धयुतं जीवा जीवान्तराहतं भक्तम् ।

तिथ्या [१५] कलादिलब्धं जीवायुक्त गुणो वा स्यात्। ६० ॥

[ चतुर्थविधिः]

भागाद्यष्टि[१६]गुणं वा तिथि[१५]भक्त मौर्विका विशेषहतात् । ज्याविवरात्तद्भक्ताल्लव्धयुतात् मौर्विकाप्येवम् ॥ ६१ ॥

[पञ्चमविधिः] कृत[४]संगुणिता लिप्तास्तिथिवर्ग[२२५]हृताः फलं गुणः शेषात् ॥ ज्यान्तरहताद्विभक्तात्तत्वयमै[२२५]र्लब्धयुग्गुणो जीवा ॥ ६२ ॥ [भुक्ताभुक्तज्यान्तरप्रयोगेण इष्टज्यासाधनम्]

[ प्रथमविधिः]
भुक्ताभुक्तज्यान्तरदल-विकलवधात् स्वचापलब्धोना । 

युक्ता क्रमोत्क्रमज्या भुक्ता गुणकः फलं च लब्धघ्नम् ॥ ६३ ॥ Text of Ms. A : [60] वंशादि तिथिलब्दयुतं जीवा जीवान्तराहतं भक्तं | षष्टया कलादिलव्दं जीवायुक्त गुणो वा स्पात् ।

[61] भागाद्यष्टिगणं वा तिथिभत्कं मौर्विंका विशेषहत्तात् ज्याविचारात्तद्भतालव्दयुक्ता मौर्विंकाप्पेवं ।
[62] कृत्तसंगुणिताल्लिप्तास्तिथिवर्गहृताः फलं गुणः शेषात् । ज्यातरहिताद्विभत्कात्तत्त्वयमैर्लव्दयु णा जीवा ।
[63] भुक्ताभुक्तज्पांतरदलविकलवधात्स्वचाषलव्द्योना

युक्ता क्रमोत्क्रमज्पा भुता गुणक: फल च लव्दौ वं। Ms. B: 60 a °लब्दघुतं 60 c °लब्दं 61 c ज्याविवरा° 61 d °लव्दद्युता•