पृष्ठम्:वटेश्वरसिद्धान्तः.djvu/101

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

\96. वटेश्वरसिद्धान्ते मध्यगात्यधिकारे [अधिकारः I भूपरिधेरज्ञानाद् व्यर्थ देशान्तरं तदज्ञानात्।

स्फुटतिथ्यन्ताज्ञानं तन्नाशाद्ग्रहणयोर्नाशः ॥ २४ ॥

[देशान्तरसाधनस्य खण्डनम्]

भूपरिधिखण्डवर्गो देशान्तरयोजनैः कृतस्तेन |
तदतीव गणितजाडयं प्रदर्शित जिष्णुतनयेन । २५ ॥

[ रविसङ्क्रान्तेः ग्रहाणाञ्च खण्डनम्]

संक्रान्तिर्घर्मांशोः समस्तसिद्धान्ततन्त्रवाह्याऽतः ॥ कुदिनानामज्ञानान्मन्दोच्चस्य स्फुटो नार्कः ॥ २६ ॥ कल्पितभगणैर्द्युचराः कल्पितकुदिनैः प्रकल्पितैस्तुङ्गैः ॥ परिधीनामज्ञानाद् दृष्टिविरोधात्स्फुटा नातः ॥ २७ ॥

[ व्यासार्धखण्डनम्] त्यक्ते भव्यासार्धे शास्त्रप्रसम्मिते गणितसौक्ष्म्यात् । कर्तव्यं व्यासार्धं ‘खमुनिरदा'[ ३२७०]' स्त्वतिगणितजाडयमिदम् ॥ २८ ॥ Text of Ms. A :

[24] भूपरिधेरज्ञाताद्व्यर्थं देशांतरं तदज्ज्ञानाद

स्फुटतिथ्पंताज्ञानतत्त्राशाद्रहणयोर्नाशः । [25] भूपरिधिखंडवर्गो देशांतरयोजतैः कृतस्तेन तदतीव गणितजाडयं प्रदर्शितां जष्णुतनयने । । [26] संक्रांतिर्घर्मांशोस्ममस्तसिदृांतंत्रवाह्यतः कुदिनानामज्ञानान्मंदोश्चस्प स्फुटो नार्कः । । [27] कल्पितभगणर्द्युचराः कल्पितकुदिनेः प्रकल्पितै सुंगैः परिधीनामज्ञानाद्द्वृष्टिर्विरोधात्स्फुटा तातः । ।॥ [28] त्पक्त्ते भव्यासार्धे सहस्रष्तसंमिते गणितसौक्ष्म्पात् कर्तव्यं व्यासार्धे खमुनिरदस्त्वतिगणितजाडयमिदं । !! Ms. B.: 27 b °स्तुंगै: 27 dस्फुठा नात: 1. These are words of Brahmagupta. See BrSpSi, xxi. 16.