पृष्ठम्:लघुभास्करीयम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयोऽध्यायः मध्यमं पद्मिनीबन्धोः केन्द्रमुच्चेन वर्जितम्' । पदं* राशित्रयं तत्र भुजाकोटी गतागते ॥ १ ॥ ओजे युग्मे क्रमाज्ज्ञेये कोटिबाहू४ इति स्थितिः । लिप्तीकृत्य' धनुर्भागैर्जीवाः कल्प्या' भुजेतराः ॥ २ ॥ वर्तमानाहतं शेषं धनुषाप्तं विनिक्षिपेत् । ते परिध्याहतेऽशीत्या लब्धे कोटिभुजाफले ।। ३ ।।*** भुजाफलं* धनर्ण* स्यात् केन्द्रे जूकक्रियादिके * । भुजाफलहते भोगे' * चक्रलिप्ताप्तमेव' च ।। ४ ।। भजाफलस्य षड्भागस्तिग्मांशोर्वा विलिप्तिका * । त्रिरभ्यस्ता' ७ द्वयशीत्याप्ता लिप्तिकाद्या *** निशाकृतः ।। ५ ।। कोटिसाधनयुक्तोनं व्यासार्ध मृगककिंतः***. । तद्बाहुवर्गसंयोगमूलं कर्ण:* फलाहत* ।। ६ ।। व्यासार्धाप्तफलावृत्या कर्णः कार्योऽविशेषितः * । शीतांशोरप्ययं ज्ञेयो विधिः कणविशेषणे *3 ।। ७ ।। व्यासार्धसङ्गुणा भुक्तिर्मध्या* कर्णेन लभ्यते । स्फुटभुक्तिः सहस्रांशोः शीतांशोरप्ययं विधिः ।। ८ ।। अन्त्यमौर्वीहतां भुक्ति मध्यमां धनुषा हरेत्" । लब्धं स्ववृत्तसंक्षुण्णं* छित्वाऽशीत्या* विशोधयेत् ॥ ६ ॥

  • वजिता A. २ पदा A. 3 भुजाकोटि A, D; भुजकोटी B. ४ कोटिवाह्य B.
  • ज्ञप्तिकृ* A. ६ धनुर्भागे जीवः:P. ७ कल्य A; कथ्या 10 . ८ ०तरा A, C, D.
  • वर्तमानाहता शेषा धनुषाप्ता A . १० This verse is missing from B, but

it has been commented upon by Sarikaramārāyama and occurs in all other Ms . ११ भुजावाप्तं B, C. १३ धनं हि C . १3 °यादिंगे A.

  • ४ भागे A. १५ वक्रिलिप्ता" A. १६ १०वपि लिप्तिकाः A. १७ त्रिरभ्यस्य A, B;

त्रिकाभ्यस्ता (C. १८ काद्यां P. १५०कर्तितम् D. २० कर्म A. २१ फलाहतः is missing from D. २२ कर्णः कार्यो विशेषतः A; कर्णकोट्योर्विशेषज: B. २.3 कर्णाविशेषणै: A, B; कर्णविशेषणे D; कणोंविशेषजः P. २४भुक्तिर्मध्य: P. २५ धनुराहरेत् B. २६ लब्धा स्ववृत्तसंक्षुण्णा . 4. २७ हृत्वा° A; हत्वां D