सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८४ काव्यमाला । सार्वधातुकार्धधातुकयोः ॥ ८४ ॥ जाम्रो ङित्सु ॥ ८५ ॥ पुगन्तलघूपधस्य च ॥ ॥ ८६ वोद्धापि नीतेरनयप्रवर्ती विचेष्टितहेपितवन्धुवर्गः । दशाननं जागरिकैः परीतः पुरो बलस्यात्ममुखेन निन्ये ॥ ४१ ॥ नाभ्यस्तस्याचि पिति सार्वधातुके ॥ ८७ ॥ सुवो स्तिङि ॥ ८८ ॥ उतो वृद्धिर्लकेि हालेि ॥ ८९ ॥ ऊणते र्विभाषा ॥ ९० ॥ गुणोऽपृत्ते ॥ ९१ ॥ तृणह इम् ॥९२ ॥ व्रव ईट् ॥ ९३ ॥ आस्तिसिचोऽपृत्ते ॥९६॥ रुदश्च पञ्चभ्यः ॥९८॥ अङ्गाग्र्यगालवयोः ॥९॥ अदः सर्वेषाम् ॥१००॥ नेनिजाम्यहममुं जलैर्जनं मा स्म भूत्क्षणमिहासितुं मतिः । अब्रवीद्वनमितीव पार्थिवं पुष्पसङ्गिकलषट्पदारवैः ॥ ४२ ॥ सत्त्वं तृणेढि स्म बने न कश्चिन्न वाब्रवीदप्रियमध्वनीनम् । आसीजनः प्रीतियुतस्तदानीं कार्षीन्न मा पुष्पफलोपचायम् ॥ ४३ ॥ समाश्वसीत्तत्र जनः श्रमार्तस्तथास्वपीत्कश्धिदजागरीच विमुच्यमानं पुनरेव तेन खगैरेंचोदीदिव ॥ जातदुःखम् ॥ ४४ उचैररोदन्नलिनी शुचेव त्रासाद्रते हंसगणे निनादैः । अज्ञातदुःखास्वपदेव तस्मिन्कुमुद्वती जागरिता रजन्याम् ॥ ४१ ॥ वने फलानि न्यपतन्दुमेभ्यः सुखं समादाय एवं सुखोपार्जनबर्तनोऽपि शाय सेवां कुरुते हि लोकः ॥ ४६ ॥ अतो दीर्घ यञ् ि॥ १०१॥ सुपि च ॥ १०२ । बहुव चने झल्येत् ॥ १०३ ॥ ओोसि च ॥ १०४ ॥ आङि चापः ॥ १०५ ॥ संबुद्धौ च ॥ १०६ ॥ अम्बाथैनद्योखः ॥ ॥१०७ हूखस्य गुणः ॥ १०८ ॥ जसि च ॥ १०९ ॥ ऋतो डिस नामस्थानयोः ॥ ११ ॥११२॥ याडापः ॥११३॥ सर्वनाम्रः स्याड़स्वश्च ॥ ॥ । ११४ १. ‘जागरकैः’, ‘जागरितैः’ वा स्यात्, २. ‘ररोदीत्' स्यात्, [७ अ० ३ पा०२३ स०] रावणार्जुनीयम् १८९ विभाषा द्वितीयात्तृतीयाभ्याम् ॥ ११५ ॥ डेराम्रपद्या फ्रीभ्यः ॥ ११६ ॥ इदुद्भयाम् ॥ ११७ ॥ औत् ॥ ११८ अच घेः ॥ ११९ ॥ आडो नास्त्रियाम् ॥ १२० ॥ च्युतें कटाभ्यां मदवारि भृङ्गाः पीत्वापि हृयं नृपकुञ्जराणाम् । वृक्षेषु लीनाः कटयोर्न शस्ताः सुदुस्त्यजा केन निवासभूमिः ॥ ४७ ॥ हाहाम्व हा मातरिति बुवाणाः श्रान्ता ययुः केचिदपेतवाहाः । आहेति नारीमपरोऽतिदूरात्किमेष भद्रे वद भामिनि त्वम् ॥ ४८ ॥ दैधतः सुमनोरजश्चयं धवितारः पटवृक्षमारुहन् । आहरत्पवनो जनाश्रमं() जनता भर्तरि च स्थितं क्रमम् ॥ ४९॥ पथि चूतरोः समीपतः कैरिणोपेतेंवते सगन्धये । कुपितं प्रति रागशङ्कया निजया भारमतीत्य वायवे ॥ १० ॥ कटयोरलिमालयेभदानं प्रपिबेत्या न कृता स्पृहा वनाय । स्पृहयेन च माधवीलतायै न हि कृष्णात्मनि() संस्थितिः कृतस्य ॥११॥ चिरं सक्तः पीत्वा द्विरदमदलेखां मधुकरो द्वितीयायै चित्तं पुनरदित पातुं दृढमतिः । तृतीयस्यै पश्चादपरमिभमासाद्य मुदितो न तृप्ति जानन्ति ध्रुवमतिमदाक्षिप्तमतयः ॥ १२ ॥ तैतस्तरौ गुञ्जति षट्दौधे शङ्कां मतौ कुर्वति वलवीषु । उद्भीयमानेव महीपतेः सा सेना व्यतीयाय बनान्तभूमिम् ॥ १३ ॥ माहिष्मतीमथ पुरीं पुरुहूतभूति प्रभूतपवनामचलत्पत्ताकम् । क्षेपीकृता मधुपुरी क्षितिपालोकः इत्यर्जुनरावणीये महाकाव्ये देविकासप्तमाध्यायतृतीय)पादे त्रयोविंशः सर्गः ॥ १. ‘दयितः' ख. २. ‘ऋर्म’ ‘श्रमं’, वा स्यात्. ३. ‘आडो नास्त्रियाम्' इत्यस्योदा रणत्वेन विचारणीयम्. ४. ‘पीतवते सुगन्धये' शोधितपाठः. ५. ‘पिबन्या' स्यात्, , एष लोकः ख-पुस्तके नोपलभ्यते. ७. ‘मरपुरी' शोधितपाठः. २४