सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३४ काव्यमाला । द्विपदिकादुदयाचलमूर्धनि त्रिपदिकां निदधच निशाकरः । करचतुःशतिकां च दिवि क्षिपत्रुपययौ जनलोचनगोचरम् ॥ ३४ ॥ मूर्छितः प्रतिमुहूर्तमनल्पां छादनाय शनकैज्वलितस्य स्थूलिकां बृहतिकामिव चन्द्रश्चन्द्रिकामुपदधे तिमिरस्य ॥ ३६ ॥ प्राचीनमिन्दौ गगनादुदंशापंयाति भृङ्गस्तरसोपगम्य । कुमुद्वतीमम्भसि सामिभिन्नां सांराविणं चारु चिराय चक्रे ॥ ३६ ॥ चन्द्रेऽभ्युपेते सखि दूत्यधीना यतः प्रियप्राप्तिरतः प्रियाहि । खमाशु नार्यः सुचिराय मत्रं तदाषडक्षीणमिति प्रचक्रुः ॥ ३७ ॥ पिबन्विनीलानि तमांसि शुभ्रः करीव शाक्रो यमुनाजलानि । तेंद्योतयौमास शशी()व कृत्यै() क्ष्मां ज्योत्स्रयालंपुरुषीणमाशु॥३८ प्रमदारिपु()खण्डिता शशाङ्गं रिपुजातीयममन्यतावलोक्य । सुतरां रमणीयमेव दुःखं कुरुते चेतसि कामिनां वियोगे ॥ ३९ ॥ नाद्यागच्छामि त्वत्प्रणत्येति नार्यः श्रुत्वा संदेशं वाचिकं दूतिकानाम् । बहिस्थानीयं मेनिरे शीतरश्मि किं वा प्रीत्यै मेद्विप्रियेऽपि प्रियाणाम् ४० उचैस्तमामाप्य दिवीद्धभासा निराकृतं तामसमिन्दुनाशु वियोगिनामेतितरां स्म चित्तमैक्यं भजन्ते हि समानदुःखाः ॥४१ ॥ ददाति पायं नयनाम्भसा ते चन्द्राय शीघ्र ब्रज यावदेषा । नातिथ्यमस्याशु पुरा ददाति दूत्येति कश्चिज्जगदे सबाष्पम् ॥ ४२ ॥ न दिर्न वा त्रिर्वहुधा मयोक्तं प्रयाहि धामाद्य विलोक्य सेन्दुम् । करिष्यते कीर्तिमयं शरीरं सौध्येति कश्धिजगदे प्रियायाः ॥ ४३ ॥ रवितः प्रति चन्द्रमाः स्म मुद्यन्सहसा लोहितकं वपुः प्रकाश्य । च्युतगैरिकधातुरागमूहे खनदीमेत्य पुरः करीव शाक्रः ॥ ४४ ॥ शशिना परिखण्डिता तमिसा शतकृत्वः स्फुरता करव्रजेन । सकृदप्यवलोकितेन दूरान्मुखशोभा पुनराशु मानिनीनाम् ॥ ४९ ॥ १. द्विपदिकामुदया' स्यात्. २. ‘वायाति' स्यात्. ३. ‘प्रयाहि' स्यात्. ४. ‘उद्दषोतयामास' स्यात्, ५. ‘स्याद' स्यात्, ६. ‘सायेति' स्यात्, १ अ० ४ पा०१७ स०] रावणार्जुनीयम् १३९ अथ तत्र महाहवागतानां यमदैवत्यमरिब्रजं विधाय । दयिताविहितैौपचारिकाणां सहसैवापगतः श्रमो भटानाम् ॥ ४६ ॥ बहुशः कृतदेवतोपचाय्या वनिताप्यापि रणागतं युवानम् । रमते स्म न भाविदुःखभीता सततं भीतिपरा हि वीरभार्या ॥ ४७ ॥ अभूततद्भावे कृभ्वस्तियोगे संपद्यकर्तरि विः ॥५०॥ अरूर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च ॥ ५१ ॥ विभाषा साति कात्स्न्यें ॥ ५२ ॥ आििभाविधौ संपदा च ॥ ५३ ॥ तदधीनवचने ॥ ५४ ॥ देये त्रा च ॥ ५५ ॥ देवमनुष्य पुरुषपुरुमर्येभ्यो द्वितीयाससम्योर्येहुलम् ५६ ॥ रम्यीकृते चन्द्रमसा प्रदोषे विर्तामसीभूत“ तुराले आशर्मनीभूतवियोगिवर्गे रन्तुं समारभ्यत कैापि लोकैः ॥ ४८ ॥ भटा विचेतीकृतशात्रवत्रजाः प्रविश्य गेहं विरजीकृताजिरम् अरीरमन्द्रों मदविह्वलाः प्रिया प्रियेा“मुत्राकृतनिश्चलेक्षणाः ॥४९॥ व्यक्तानुकरणाद्द्यजवरार्धादनितौ डाच ॥ ५७ ॥ कृओो द्वि ौ ॥ ५८ ॥ सुखमि यादानुलोम्ये ॥ ६३ । सत्यादशपथे ॥ ६६ ॥ स्मसात्कृतविपक्षमुपेतं वीक्ष्य कान्तमनिरूपितकार्यम् तस्य चेतसि सुखाकृतचेष्टा प्रीतिमाधित परां जिनकान्ता ॥ ५० ॥ वक्रेण वक्रमवलम्ब्य करद्वयेन कस्यैचिदादरवता मधुपानवत्यै दातुं बलात्प्रियतमेन विपक्षदृष्टं नृत्यद्भवे प्रमदसात्समपद्यताशु ॥११॥ सैल्यां कृतां प्रीतिरसेन पूर्व पश्चात्तर्नु कामयुतां दधाना । प्रियस्य काचित्समरागतस्य मियाकरोति स्म विचेष्टितानि ॥ ५२ ॥ संयुगे कणकणाकृतघण्टान्स निपत्य तरसा रिपुनागान् । प्राप्य वेश्मनि भटा वनितानां बिभ्रति स्म कृतकादपि कोपात् ॥१३॥ १. ‘वितामसीभूतधरान्तराले' स्यात्. २.‘आश्शून्मनीभूत्' स्यातू. ३. ‘कापि' स्यात्, ४. ‘न्खा' ख-पुस्तके शोधितम्, ५. ‘प्रेियोऽपुरुत्राकृत' स्यात्. ६. ‘सल्या' स्यात्,