सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२८ काव्यमाला दन्तावलैर्वा भुवि दारितानां कृषीवलैर्वेगितमापतद्भिः । रणेषु नागैः प्रविभिन्नकुम्भैर्मुक्ता बभुवजमिव प्रकीर्णाः ॥ ७० ॥ स्तवकवलयिनी सुरेशनारी नरपतिरूपमुपेयुषी जिघृक्षुः । नमृतमयमतः() कयासि मूढे युवतिभिरित्युदिता जगाम लज्जाम् ॥७१॥ | वैतायमिष्वा मृगयुं रुषाय महंयुगोमायुमयुप्रयायी । नरः समालिङ्गितकौतुमेकः सुहृत्तमो वा विदधे शुभंयुम् ॥ ७९ ॥ यद्विषां प्रथममागतं बलं तद्विपक्षपरितृद्धिखण्डितम् तानवं परमदृश्यतां गतं पंक्षताविव शशाङ्कमण्डलम् ॥ ७३ ॥ लोहवर्मभृति मायिनि मुक्तं बाणजालमपरेण विपक्षे । बीजमुप्तमिव सोषरदेशे जातमाशु विफलं हतशक्ति ॥ ७४ ॥ साक्षीव तत्र दिवसं नरराक्षसानां दृष्ट्रा महाहवमिति प्रतिबद्धखेदः । आलोकसंहृतिमुपादधदंशुमाली विश्रान्तयेऽस्तगिरिकाननमाजगाम ॥ ७५ ॥ इत्यर्जुनरावणीये महाकाव्ये धान्यानां भवने (पथमाध्यायद्वितीय) पादे षोडशः सर्गः ॥ सप्तदशः (पञ्चमाध्यायस्य तृतीयचतुर्थपादयो ) सर्ग प्राग्दिशो विभक्तिः ॥ १ ॥ किंसर्वनामबहुभ्यो ऽद्यादिभ्यः ॥ २॥ इदम इशा ॥३॥ एतेतौ रथोः ॥४॥ एतदोऽनन् ॥ ६ ॥ सर्वस्य सोऽन्यतरस्यां दि ॥ ६ ॥ पञ्च म्यास्तसिल ॥ ७ ॥ तसेश्च ॥८ ॥ पर्यभिभ्यां च ॥ ९ ॥ ततः शमं याति पतङ्गपावके शनैर्दिगन्तान्परितोऽभितो दिशम् । तमश्चयो धूलिरिवालिमेचकः प्रपूरयामास ततोऽप्युपागतः ॥ १ ॥ ससम्यास्रल ॥ १० ॥ इदमो हः ॥ ११ ॥ किमो ऽत् ॥ १२ १. ‘तायां' स्यात्, २. ‘वातायु' स्यात्. ३. ‘कन्तु' स्यात्,४.‘पक्षातिः' (५॥२॥२५) इति सूत्रोदाहरणभूतोऽयं श्रेोको मत्वर्थीयप्रकरणे कथमागतः. [१ अ० ३ पा० १७ स०] रावणार्जुनीयम् १२९ प्रयासि मुक्त्वेह निशागमेषु नः प्रेतो नयास्मानपि यत्र गच्छसि । इंतीययान्तं रविर्मुरुचकैः सरोरुहिण्यः कंलशं सनिःस्वनैः ॥ २ ॥ सर्वेकान्यकिंयत्तदः काले दा १५ ॥ इदमी | हिंन् ॥ १६ ॥ सदास्तमकें यति सर्वदा तमः कदानवृद्धं न तदेकदा परम् । तथापि तस्मै कुपिता धृताजयो जना विवेकस्य पदे न“धः ॥ ३ ॥ यथान्यदास्ताचलमाययौ रविस्तदा प्रियायाकृत कामिनां मुदम् । तथैव नैतहिं रणोत्सुकात्मनाममर्षिणः सन्ति सुखैकनिःस्पृहाः ॥ ४ ॥ अधुना ॥ १७ ॥ दानीं च ॥ १८ ॥ तदो दा च ॥१९॥ अन्नदद्यतन हिँलन्यतरस्याम् ॥ २१ ॥ कृतोऽधुनासौ सवितानुरागवान्दिनश्रिया सार्धमहं पुनः प्रियाम् । इमामिदानीमिति वा विचिन्तयन्समालिलिङ्ग क्षणदां तमश्धयः ॥ ९ ॥ सद्यःपरुत्परायैषम:परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेषु रितरेद्युरपरेद्युरधरेद्युरुभयेद्युरुत्तरेद्यु ॥ २२ ॥ गतेऽपि सद्यः सवितर्युपास्तमं परुत्परारीव तमोभिरुद्धतैः । युगान्तसंक्षोभितसिन्धुवारिभिः समावृता वा न धरा व्यराजत ॥ ६ ॥ पुरा भवेनामरभङ्गकारिणा रणेन नीताः परमेण ये मुदम् । अवाप्य तं संयुगदैर्षमस्तनं समाकुला रात्रिचरा ययुगूहम् ॥ ७ ॥ परेद्युः“द्य गते तदा रौ रुराव चकाह्वयुगं समाकुलम्। क्षणेन पूर्वेद्युरिवाम्बुजागराः क्षणेन मम्लुर्हतमित्रवर्जिताः ॥ ८ ॥ अन्येद्युरेकेऽन्यतरेयुरन्ये शुचेतरेद्युश्ध मुदापरेद्युः । कृतानि कार्याणि ययुस्तदानीं योधा बुवाणाः खगृहं गतेऽर्के ॥ ९ ॥ प्रकारवचने थालट् ॥ २३ ॥ इदमस्थमुः ॥ २४ ॥ कि मश्रव ॥ २५ ॥ १. ‘प्रीतो' स्यात्, २. ‘इतीव यान्त' स्यात्, ३. ‘मूचु' स्यात्. ४. ‘कलहंस' स्यात्. ५. ‘गतो' स्यात्. ६. ‘स्तदं, स्तर्ग' वा स्यात्, ७, ‘गमैषम' स्यात्. ८. ‘परेद्यवी वाद्य' स्यात्. १७