काव्यमाला । भीतानुपातमेषोऽरीन्वीक्षते विनशिष्यत संमुखानुपातं ये कुर्वते तान्निकृन्तति ॥ ३३ ॥ अस्यतितृषोः क्रियान्तरे कालेषु ॥ ५७ ॥ प्रतिकूला नृपा येऽस्य यहात्यासं निहन्ति तान् । यहात्यासं तथा नम्रान्मधु पाययते शुभम् ॥ ३४ ॥ नाम्न्यादिशिग्रहोः ॥ ५८ ॥ नामग्राहं समाख्याता येऽस्मै सपदि पार्थिवाः । नामादेशं मुदे तेषां संमानादि दिशत्यसैौ ॥ ३५ ॥ अव्ययेऽयथाभिप्रेताख्याने कृव्यः क्त्वाणमुलौ ॥५९॥ उचैः कारं त्वयाख्येयं यद्यस्य हृदयं प्रियम् । नीचैःकृत्य तथा गर्छमेष न्यायः सनातनः ॥ ३६ ॥ तिर्यच्यपवर्गे ॥ ६० लाघनीयानहं मन्ये तिर्यकारं गतान्नरान् तिर्यकृत्वा गता ये तु न ते पश्यन्ति तं प्रभुम् ॥ ३७ ॥ । खाङ्गे तस्प्रत्यये कृभ्वोः ॥ ६१ ॥ मुखतःकारमाख्यासि देवानसिजितान्रणे मुखतः कृत्य नाख्यासि राक्षसान्पक्षपातवान् ॥ ३८ नाधार्थप्रत्यये च्ठ्यर्थे ॥ ६२ ॥ ॥ नानाकारं मुखं बिभ्रन्नानाकृत्यावलोकयन् । नानाकृत्वा गिरं दूतः कोपादित्यवदत्पुनः ॥ ३९ ॥ स्वामिनं मे समुद्दिश्य बहुधाकारमभियम् । भाषितं न द्विधाकृत्वा न त्रिधाकृत्य वा त्वया ॥ ४० ॥ एकमप्यप्रियं वाक्यं त्वयोक्तं किमुताक्षयम् । नानाभूयाद्य मे चिते दिग्धं शल्यमिवार्पितम् ॥ ४१ ॥ तूष्णीमि भुवः ॥ ६३ ॥ १. ‘प्रपादं' स्यात्, २. ‘यहूतर्ष' स्यात्, .[३ अ०४ पा०१३ स०] रावणार्जुनीयम् । तूष्णींभूय स्थितोऽस्म्येष । सहमानस्तवाप्रेियम् तूष्णींभूत्वा त्वयाप्येवं सोढव्यं यद्रवीम्यहम् ॥ ४२ ॥ अन्वच्छयानुलाम्यये ॥ ६४ ॥
- अन्वग्भूय मया सर्व भाषितं ते प्रमुं प्रति ।
नान्वग्भूत्वा त्वया किंचिदस्मान्प्रत्युदितं वचः ॥ ४३ ॥ थेषु तुमुन् ६ ५ ॥ शक्तस्त्वं परमाक्रोधुं न योढुं धृष्टता तव । जानासि स्तोतुमात्मानं गन्तुं न घटसे युधम् ॥ ४४ ॥ पर्याप्तिवचनेष्वलमर्थेषु ॥ ६६ ॥ कर्तरि कृत् ॥ ६७ ॥ गन्तुमेकः स पर्याप्ततावकं रावणो बलम् । पाता मरणभीतानां हारको रिपुसंपदाम् ॥ ४१ ॥ भव्यगेयप्रवचनीयोपस्थानीयजन्यास्राव्यापालया वा ।। { भव्योऽसौ रक्षसां नाथो भव्यमस्य बलेन च । । गेयः स देहिनां भक्या गेयस्तेन न विद्यते ॥ ४६ ॥ उपस्थानीयमेकं तं प्राहुः सर्वे दिवौकसः नोपस्थानीयमेतेन पश्यामो भुवनत्रये ॥ ४७ ॥ लः कर्मणि च भावे चाकर्मकेभ्यः ॥ ६९ ॥ यः शेते वीतभीरेको यः करोति भयं द्विषाम् । येनास्यते विजित्येन्द्रं क्रियते स कथं रिपुः ॥ ४८ ॥ ७० ॥ आसितव्यं त्वया नेह द्रष्टव्यो वा दशाननः । आसितं कीदृशं तेन यसै कुद्धः स दुर्जयः ॥ ४९ ॥ सुदुस्तरमिदं वैरं मूढेन भवता कृतम् । किं न स्वाढयंभवं तेन यस्य वैरी दशाननः ॥ १० ॥ आदिकर्मणि क्तः कर्तरि च ॥ ७१ ॥ १. ‘स्तारकं' ख