सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आङि युद्धे ॥ ७३ ॥ ७४ । भावे: ऽनुपसर्गस्य ॥७५॥ हनश्च वधः ॥७६॥ मूतौ घनः ॥७७ ॥ अन्तर्धनो देशे ॥ ७८ ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥७९॥ उद्धनोऽत्याधानम् ॥ ८० ॥ ॥ अपघनाऽङ्गम् ॥८१ करणेऽयोविदुषु ॥ ८२ ॥ स्तम्चे क च ॥ ८३ ॥ परौ घः ॥ ॥ उपन्न आाश्रये ॥ ८५ ॥ संघोद्धौ गणप्रशंसयो ८४ ॥ ८६ ॥ निघो निमितम् ॥ ८७ ॥ ड़ितः क्रिः ॥ ८८ ॥ ट्तिोऽथुच ॥८९॥ यजयाचयतविच्छप्रच्छरक्षो नङ्॥९०॥ स्वपो नन् ।। ९१ । उपसर्गे घोः किः ॥ ९२ ॥ कर्मण्य धिकरणे च ॥ ९३ तेनाहबायस्तहरिर्मदान्धस्तटाभिघाताद्विदधन्महाद्रौ समं समाभिः सरितो वशाभिर्गजाधिपः स प्रमदेन दृष्टः ॥ २६ ॥ . सुप्तोत्थितस्याद्विपतेनिकुञ्जादपश्यदारात्स मृगाधिपस्य । विभिद्यमानं ध्वनितस्वनेन त्रासाभिभूतं समर्ज पशूनाम् ॥ २६ ॥ मृगाधिपः सापसरां वराहं प्रियां पयः पाययमानमैक्ष्य आहायमस्यापि वधाभिशङ्की प्रतीक्षमाणः क्षणमैक्षि तेन ॥ २७ ॥ उरुं सखीसङ्गमपास्य काचिन्निघदुमं भूभृदुपघ्रमेत्य । अकृत्रिमं वेपथुमुद्वहन्ती क्षिष्टा प्रियेणैक्षि कैलिन्दकन्या ॥ ॥ २८ यज्ञान्विधातुः परिघोरुजानोन्महाहवप्रक्षरतेरनाधेः । पयोधिभीमस्य नृपस्य सैन्यं शुकः सरित्कूलनिविष्टमाप ॥ २९ ॥ स्त्रियां क्तिनन् ।।९४ ॥ स्थागापापचो भावे ॥ ९५ ॥ ऊतियूतिजतिसातिहेतिकीर्तयश्च ॥ ९७ ॥ ततिं भुवः कुर्वदुदारयोधं युधि श्रितानेकगवादिवाहम् । प्रभूतहेत्याहतशुद्धकीर्तिस्थितिमणीतिं प्रैभुनादधानम् ॥ ३० ॥ ब्रजयजोर्भावे क्यश् ॥ ९८ ॥ संज्ञायां समजानिषदः निपतमनविदषुञ्शीङ्भृब्पिण ९९ ॥ १. ‘सोपसरां' स्यात्. २. ‘पुलिन्द’ त्यात्, ३. ‘प्रभुमाद' स्यात् [३ अ० ३ पा० १२ स०] रावणार्जुनीयम् इत्यावता राजनेन गुप्त विद्यावता साधुजनेन सेव्यम् । शय्यासनालंकृतवीरगेहं परोपकारप्रतिबद्धशक्ति ॥ ३१ ॥ कृत्रः श च ॥ १०० ॥ इच्छा ॥ १०१ । अत्र प्रत्ययात् १०२ ॥ गुरोश्च हलः १०३ षिद्भिदादिभ्योऽङ्कः १०४ ॥ चिन्तिपूजिकथिकुम्बिच र्चश्च ॥ १०५ यत्पूरयामास विपूरिताशं भर्तुर्विशालां परिचर्ययेच्छाम् जेतुं चिकीर्षा युधि यस्य शत्रं खभर्तृभृत्यास्थितमानसस्य ॥ ॥ ३२ शिक्षावता येन रणक्रियायां समर्पिता वैरिजनस्य भिक्षा । त्रपायुतः सप्रमदो वनानि नीतो जरावानिव यौवनेऽपि ॥ ३३ ॥ यस्मिन्भिदां चक्रुरिभा रिपूणां भिदां च खङ्गधा भटपाणिभाजः । आस्तां कथा यत्परिजेतुमाजौ वार्तापि नासीद्विषतां मनःसु ॥ ३४ ॥ आतश्चोपसर्गे ॥ १०६ ॥ ण्यासश्रन्थो युच ॥ १०७ ॥ प्रविश्य तत्सैन्यवनं करीव श्रद्धां नृसिंहेक्षणजां दधान उपासनां द्वारमुपेत्य चक्रे पराभिभूतेर्गणनामकृत्वा ॥ ३६ ॥ रोगाख्यायां ण्वुल्बहुलम् ॥॥ १०८॥ संज्ञायाम् ॥१०९ विभाषाख्यानपरिप्रश्रयोरिञ्ज च ॥ ११० ॥ पर्यायाई णोत्पत्तिषु ण्वुच ॥ ११ ॥ प्रच्छर्दिकाहीनमहीनकायं दौवारिकाहूतमिदं तमूचुः । कां कारिकां कर्तुमिहागतस्त्वं कां वावदिं वक्तमिदं वद त्वम्॥३६॥ आक्रोशे नञ्जयनिः ।। ११२ ॥ नरस्य तस्यास्त्वविवेदनियों न वेदयत्यागणनं न तेऽदः। दौवारिकेणेति शुकोऽभ्यधायि प्रावेशि भूपालसमं त्वरावान् ॥ ३७ ॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ नपुंसके भावे त्क्तः ११४ युट् च ॥ ११५ ॥ कर्मणि च येन संस्पशत्कर्तुः शरी १. ‘परिचर्यापरिसर्यामृगयाटाट्यानामुपसंख्यानम्’ इति वार्तिकमपि समर्तव्यम्. अत्र लोके पुस्तकद्वयेऽपि समान एव पाठः समुपलभ्यते. ३. ‘छिदां' स्यातू, ।