सामग्री पर जाएँ

पृष्ठम्:रावणार्जुनीयम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला । संत्यक्तं दृष्टवान्भीतैः सुत्वभिर्यज्वभिजैिः । तत्कापि जरदावार्स कचिचारुनवोटजम् ॥ २ ॥ भाषायां सद्वसश्रुवः ॥ १०८ ॥ उपेयिवाननाश्धाः | ननूचानश्च ॥ १०९ ॥ को यमाश्रमम् । त पश्यन्गतवान्धास यमसावनुशुश्रुवान् ॥ ३ ॥ उपयुपाश्रमानन्यास्तनाना'ान्कृता मुनिसंघः शुकेनैक्षि स चानश्यद्भयात्ततः ॥ ४ ॥ लुडू ॥ ११० ॥ अनद्यतने लडू ॥ १११ । अभिज्ञाव चने लुट् ॥ ११२ ॥ अभाषत शुको वाक्यं नदीं वीक्ष्येति सारणम् । अभिजानासि भद्र त्वं स्रास्यामोऽत्र सरिजले ॥ ६ ॥ न यदि ।। ११३ ॥ विभाषा साकाहे ॥ ११४ ।। समरस्यसि सरित्यस्यां विसानि यद्भुञ्जमहि । यद्वत्स्यामोऽत्र तद्वेत्सि भूयोऽगच्छाम मन्दिरम् ॥ ६ ॥ यदभुञ्जमहि तद्वेत्सि भुक्त्वाशेमहि तत्पुन पावनीयं नदी रम्या शृणु यत्कृतमेनया ॥ ७ ॥ परोक्षे लिट् ॥ ११५ ॥ हशश्वतोलैडू च ॥ ११६ ॥ पुनरुक्तमियं वत्रे खीभूता भुवनाधिपम् । तं शश्वदभजत्प्रीता शश्चचक्रे मुंखेक्षणम् ॥ ८ ॥ तेनेह सह सैरेमे वनेष्वायतलोचना तस्मादभीप्सितं भूपात्सुतं चालभतेति हि' ॥ ९ ॥ प्रन्ने चासन्नकाले ॥ ११७ ॥ लट् समे ॥ ११८ ॥ अप रोक्षे च ॥ ११९ । ननौ पृष्टप्रतिवचने ॥ १२० ॥ नन्वो वैिभाषा ॥ १२१ १. ‘सुखे' ख. २. ‘तेनेहेयं इ’ इति भवेत्. ३. ‘ह’इति भवेत्, [३ अ० २ पा०११ स०] रावणार्जुनीयम् ७१ ईक्षांचक्रे भवान्गङ्गां न पश्यामि सरखतीम् । नाद्राक्षं यमुनामित्थं पृष्टः प्रोवाच सारणः ॥ १० ॥ पुरि लुङ् चामे ॥ १२ ॥ वसन्तीह पुरा विप्रास्तथावात्सुः पुरा सुराः । नागाः पुरावसन्नस्यां रम्येयं सरितां वरा ॥ ११ ॥ वर्तमाने लट् ॥ १२३ ॥ लटः शतृशानचावप्रथमास मानाधिकरणे ॥ १२४ ॥ संयोधने च ॥ १२५ ॥ लक्षण हेत्वोः क्रियायाः ॥ १२६ ॥ तौ सत् ॥ १२७॥ पूइयजो: शाननम् ॥ १२८ ॥ याति हंसं सिताम्भोधिः कीर्तिचैषा क्षमाभृतः । राजमानाम पश्य वहन्तीं कमलाकरम् ॥ १२ ॥ विचरन्ति तिमिन्नाताः खादन्ति शफरीरिह । अधीयानास्त पश्यन्ति तटेऽस्याः फलभोजिनः ॥ १३ ॥ यजमानस्य वा मूर्तिरीक्षणीया मयापगा । पवमाना जनं याति सागरं करिसेविता ॥ १४ ॥ ताच्छील्यवयोवचनशक्तिषु चानशा ॥ १२९ ॥ इङ्ग. धायः शत्रकृच्छूिणि ॥ १३० ।। स्रातकाश्च वसन्त्यस्यास्तटेषु फलभोजिनः । अटमानाश्च तीर्थानि शक्तिभाजस्तपस्विनः ॥ १५ ॥ एतस्यां वटवः स्रान्ति बिभ्राणा मुञ्जमेखलाः । अधीयन्तः सदा वेदान्धारयन्तः कमण्डलून ॥ १६ ॥ द्विषोऽमित्रे ॥ १३१ ॥ सुष्ञो यज्ञसंयोगे ॥ १३२ ॥ द्विषत्पापस्य धत्तेऽम्बु स्रात्वाथ सैहितं सताम् । तटं च सुन्वतां यूपैः परितः समलंकृताम् ॥ १७ ॥ अहः प्रशसायाम् ॥ १३३ ॥ आा केस्तच्छीलतद्धर्मत त्साधुकारिषु ।। १३४ ॥ तृन् ॥ १३५ ॥ १. ‘पुरामराः' ख. २. ‘महितं’ इति भवेत्,