४४ काव्यमाला । या दुष्करान्येन जगद्विभूतिस्तामिन्दुरुद्यन्कृतवानशेषम् । कान्ताप्रियाणीति तथास्तमागाद्विधेर्विचेष्टा ह्यगुणान्तरज्ञा ॥ ७९ ॥ अकेनोर्भविष्यदाधमण्र्ययो प्रभातकाले खगृहाणि यायिकाः समुत्थितास्तूर्यरवेण योषितः । पुरोधसे भूमिपतिद्विजन्मने धनानि दायी हुतहव्यवाहनः ॥ ८० ॥ कृत्यानां कर्तरि वा ॥ ७१ ॥ गन्तव्यं तव सखि मत्प्रियस्य गेहं यातव्यं किमुत मयापि चिन्तयेदम् । इत्यूचे युवतिरचिन्तितक्षपान्ता नाकालः प्रियजनसंगमस्य कश्चित् ॥ ८१ ॥ तुल्यार्थेरतुलोपमाश्यां तृतीयान्यतरस्याम् ॥ ७२ ॥ सुप्तोत्थिताः प्रविकसन्नयनारविन्दा काश्चित्समा युवतयो नलिनीभिरासन् । काश्चित्प्रभातसमये च कुमुद्वतीनाम् ॥ ८२ ॥ हितैः७३ आयुष्यमस्तु नृपतेः स्वजनाय चास्य भृत्यव्रजस्य कुशलं सुहृदे च भूयात् । अन्तःपुरस्य सुखमेव चिराय चास्तां प्रातर्द्धिजा जगदुरित्थमुपेत्य भूपम् ॥ ८३ ॥ हितमविरतमुचैः कुर्वतः कीर्णकीर्तेः परमहितजनानामागर्ति चागतानाम् । सुरतचतुरनारीहारिसंभोगभाज परिणतिमिति रात्रिस्तस्य भूपस्य भेजे ॥ ८४ ॥ इति श्रीरावणार्जुनीये महाकाव्ये अनभिहिताद्वितीयाध्यायतृतीय)पादे पष्ठः सर्गः ॥ ६ ॥ [२ अ० ४ पा०७ स०] रावणार्जुनीयम् ४९ सप्तमः सर्ग द्विगुरेकवचनम् ॥ १ प्रातः पुनरसौ राजा शतराजीवराजितः ।
- शतराज्यस्य पुण्यापां नर्मदामगात् ॥ १
विजेता द्वन्द्रश्च प्राणितृर्यसेनाङ्गानाम् ॥ २ २ ॥ अत्रान्तरे दशग्रीवस्त्रिलोकीजयगर्वित विकरालं शिरोग्रीवं वहद्भिः परिवारितः ॥ २ ॥ मार्दङ्गिकपाणविकं गदापरिघपट्टिशम् । दधानं राक्षससभं विवेश सचिवैः सह ॥ ३ ॥ अनुवादे चरणानाम् ॥ ३ ॥ उदगात्कटकालापं प्रत्यष्टात्कठकौथुमम् । येषां यज्ञे द्विजातीनां तद्विघातिभिरन्वितम् ॥ ४ ॥ अध्वर्युक्रतुरनपुंसकम् ॥ ४ ॥ अध्ययनतोऽविप्रकृ टाख्यानाम् ॥ ५ ॥ पौण्डरीकातिरात्रस्य विचारपटुभिर्तृतम् पदकक्रमकेणापि मानुषामिषभोजिना ॥ ५ ॥ ततो वीरोपलम्भैकव्यापारावृतमानसम् । प्रविष्ट प्रविवेशास्य तत्सदश्चारमण्डलम् ॥ ६ ॥ जातिरप्राणिनाम् ।। ६ । विशिष्टलिङ्गो नदीदेशो ऽग्रामाः ॥ ७ ॥ नुद्वैरावतमुत्तीर्य गत्वा दाभिसारकम् धानाशष्कुलि संत्यज्य प्राणिमांसकृताशनम् ॥ ७ ॥ [अंत्र पत्रमेकं पतितम्।] द्वितीयाटौस्खेनः ॥ ३४ ॥ पश्यैतमीश्वरं गत्वा मानैनं सुहृदं कृथाः । सुहृदैतेन को दुःखी सुखी वैनेन कोऽरिणा ॥ ८ ।। १. ‘उष्यैरावतीपूत्तीर्य' इति भवेत्. २. द्वितीयपुस्तकेऽप्येवमेव. न ज्ञायते कति
- श्रेका अत्र त्रुटिता इति.