तिदानयोः ॥ ९२ ॥ आधिपरी अनर्थेकौ ।। ९३ ।। सुः पृजायाम् ॥ ९४ ॥ आतिरातिक्रमणे च ॥ ९५ । अपि पदार्थसंभावनान्ववसर्गगह्वसमुचयेषु । ९६ ॥ आधिरी श्वरे ॥ ९७ । विभाषा कृानेि ॥ ९८ ।। भर्तुर्मुगानुगस(म)मन्वगमञ्जना ये सिन्धुरन्ववसितो वनराजिमाप्तः । उष्णक्कुमः परिजहे च चिराय तस्या मन्वर्जुनं जगति धन्विनमीक्षमाणैः ॥ ४२ ॥ उप सुराधिपतिं युतवानसावुप नृपं तमिहान्यनृपा गुणैः। जलपल्वलपङ्कविनिर्गतं नृपतिरैक्षत सूकरमग्रत ४३ नृपमवददिदं पुमानदूरादमुमवलोकय दंष्ट्रिणं नरेन्द्र । भैयमप हृदयाद्भयादिवास्ते परि परदारशिशुर्नजाश्च यस्य ॥ ४४ ॥ दंष्ट्राअभिन्नाद्रिशिलावितानप्रोत अा मुक्तनिःशेषविपक्षशङ्कया काननं तान्परिहिण्डतेऽसौ ॥ ४६ ॥ पोत्रं मतीमे शुभदे()ऽस्य दंष्ट्र सिंहोऽपि चामुं प्रति शङ्कमानः । स्यादत्र नैनं प्रति किं वनस्य स्थिताङ्गमङ्गं प्रति यस्य शक्तिः ॥ ॥ ४६ न वीक्षतेऽमुं प्रति संयतः पुमानयं महाजौ यमत: प्रति ध्रुवम् । उपागतायैष जनाय शक्तिमान्भयं परेभ्यः प्रति गैच्छतीच्छया ॥ ४७ ॥ सुसिक्तया यः सरसः पयोभिस्तन्वातिसिक्तः कुरुते धरित्रीम्। अतिस्तुतिर्या विहिता मयास्य पापस्य देवात्र तथाभ्यनुज्ञा ॥ १८ ॥ द्विरदानपि केसरोद्धतैरपि सिचेत्सलिलैः सकर्दमैः । विचरलुरुवारिणि मियामपि सिञ्चेदपि सेवनं वनम् ॥ ४९ ॥ समरं परितः परिभ्रमन्नपि सिञ्चेदसृजा मृगाधिपान् । अपि सिञ्च वपुर्महात्मनो दयितामित्थमिवानुमन्यते ॥ ६० ॥ १. ‘अयम्’ इति पाठो भवेत्. २. ‘जजाच यः स्यात्' इति भवेत्. इति स्यात्, ४. ‘सिक्तां’ इति स्यात्. ३. ‘यच्छति'
[२०अ १ पा० ४ स०] रावणार्जुनीयम् यथासुखं आम्यति यूथमेतद्विमुच्य शङ्कामपि सूकरेऽत्र । भिन्द्धयेनमारादवलोकयन्तं त्वं यावदेषोऽधिकरोति लक्ष्यम् ॥११॥ निशितशरविभदत्रोटितं पन्नगं वा त्वरितमतितुरङ्गं संभ्रमादीयिवांसम् नरपतिरकृतास्थं भछमादाय दोभ्यौ दुतमुपरि विभिन्न कीलयामास भूम्याम् ॥ ५२ ॥ विहितवनविहारः पार्थिवैरभ्यु पवनजवतुरङ्गक्रान्तपृथ्वीविभागः । रुचिरभवनकट्यासंनिवेशाभिरम्यं शिविरमभिनिविष्टं नर्मदाकच्छमाप ॥ १३ ॥ इति श्रीकाश्मीरिकभट्टभीमविरचिते रावणार्जुनीये महाकाव्य आकडारादिपादे तृतीयः सर्ग द्वितीयाध्यायस्य प्रथमपादे चतुर्थः सर्गः । अव्ययं विभक्तिरसमीपसमृद्धिवृडयर्थाभावात्यया संप्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूब्र्ययौगपद्यसादृश्य संपत्तिसाकल्यान्तवचनेषु ॥ ६ ॥ अधिखि राज्ञां पटुना प्रजल्पता गुणानुपान्तःपुरमाययौ ततः । सुनारि बिभ्रदृतभूरिभूषणं न यत्र दुर्भूत्यमपेत मण्डलम् ॥ १ ॥ सुगन्धि मूर्छद्धनधूपधूमे निर्मक्षिकं निर्मष(श)कं च यत्र । सुसिक्तसंमृष्टमहीविभागे नीरेणु रेजे नितृणं च नित्यम् ॥ २ ॥ अन्वीश्वरं तत्र विवेचितासावनुप्रधानं जनता विनेशा । सरक्ष्यनुप्रीतिवधूजनं च सदिव्यचारि प्रभुरीक्षते तम् ॥ ३ ॥ सलक्ष्मि मूल्यां समुपादधानः सविभ्रमं यो ददृशे वधूभिः । महात्मना येन च नीतिभाजा दुरापमित्यर्जुन इत्यवापे ॥ ४ ॥ १. ‘मपेतमण्डलम्’ ख. २. ‘संमृष्ट' ख . ३. ‘दुराग इत्यर्जुनगिल्यसापे' ख .