पृष्ठम्:रामायणमञ्जरी.pdf/१७९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१७०
काव्यमाला ।


कान्ताकटाक्षतरला मत्ताः कुसुमरेणुभिः ।
चेरुः शिलीमुखास्तुल्यं वसन्तस्य स्मरस्य च ॥ ११४० ॥
मानिनीमानमातङ्गमशोककलिकारजः ।
न सेहे नागगन्धोग्रः केसरी कुसुमाकरः ॥ ११४१ ॥
विबभौ स्तोकसंजातस्तबकस्तनबन्धुरः ।
भृङ्गालकाविलासिन्यो लताः किसलयाधरः ॥ ११४२ ॥
पुष्पप्रहासिनि वने तरूणां नवयौवने ।
निःश्वस्योवाच सौमित्रिं रामो रामाहृताशयः ॥ ११४३ ॥
पश्य लक्ष्मण कालोऽयं दुःसहः समुपस्थितः ।
सीतेव तनुतां याता जीविताशापि येन मे ॥ ११४४ ॥
प्रियाप्रणयसानन्दः कालकूजितकोकिलः ।
विडम्बयति मामेष मन्ये विरहमोहितम् ॥ ११४५ ॥
दयितां मदमत्तोऽयं दात्यूहः परिचुम्बति ।
ममैव मन्दभाग्यस्य दूरीभूतास्य न प्रिया ॥ ११४६ ॥
जगर्ज मञ्जरीकुञ्जे कलं भृङ्गस्तथा तथा ।
विलासहासिनीभोगं यातास्य कलिका यथा ॥ ११४७ ॥
चूतवल्लीमधुकरं मालिनीधूमधूसरम् ।
निवारयति लोलेन पश्य पल्लवपाणिना ॥ ११४८ ॥
एक एव प्रियाहीनो रामोऽसि कुसुमागमे ।
इतीव जीवञ्जीवोऽयं विरौति दयितासखः ॥ ११४९ ॥
परागपीतकुसुमाः कुसुमापीतशेखराः ।
शृङ्गारभरणा भान्ति किंशुकाशोकचम्पकाः ॥ ११५० ॥
अदृश्यः पर्णकुसुमैः कर्णिकारोऽयमुन्नतः ।
कामी च भाति दयिताकुचकुङ्कुमपिञ्जरः ॥ ११५१ ॥
पुष्पितः सिन्धुवारोऽयं स्वैरं श्यामागमोत्सुकः ।
ज्योत्स्नापुञ्जपुटैरेव स्थितश्चन्द्रोऽवगुण्ठितः ॥ ११५२ ॥


१. 'राग' क-ख. २. 'सि कुसुमाकरे' शा०; 'रामोऽस्ति' स्यात्.