पृष्ठम्:रामायणमञ्जरी.pdf/१६९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१६०
काव्यमाला ।


अहो वतातिनैष्ठुर्यं गतस्य कठिनं विधेः।
तस्यामपि क्षये यस्य प्रसह्य प्रसृता मतिः ॥ १०१५ ॥
व्रज जानीहि सौमित्रे यदि जीवति जानकी ।
जलजाहरणे व्यग्रा जाह्नवीपुलिने स्थिता ॥ १०१६ ॥
इति तारप्रलापस्य लक्ष्मणस्तस्य शासनात् ।
भ्रान्त्वा मन्दाकिनीकूले न सा दृष्टेत्युवाच तम् ॥ १०१७ ॥
रावणेन हृतामस्यै सीतां शंसेति खेचरैः ।
प्रेरितापि न पौलस्त्यभयादूचे त्रिमार्गगा ॥ १०१८ ॥
राघवोऽपि प्रियतमावियोगविषविह्वलः ।
आयासं जीवितं मेने निवृत्तनयनोत्सवम् ॥ १०१९ ॥
स लुप्तसर्वस्व इव भ्रष्टो मार्गादिवाध्वगः ।
पुण्यक्षये विमानाग्रात्पतितस्त्रिदिवादिव ॥ १०२० ॥
शोकाग्नितप्तनिःश्वासधूसराधरपल्लवः ।
उवाच हारितधृतिर्गिरिं विरहमोहितः ॥ १०२१ ॥
गुहागहनगेहेषु वैदेही यदि ते स्थिता ।
गिरे तद्भ्रूहि वज्रोऽग्रैः शरैर्मे मा गमः क्षयम् ॥ १०२२ ॥
कूलमञ्जुलकुञ्जे सा यदि कल्लोलिनि त्वया ।
धृता तदेते शोषाय सज्जास्त्वयि ममेषवः ॥ १०२३ ॥
इति ब्रुवाणो महतीं पादमुद्रां महीतले ।
स दृष्ट्वा राक्षसेन्द्रस्य क्रुद्धः प्रोवाच लक्ष्मणम् ॥ १०२४ ॥
मिथ्यैव भर्त्सितः शैलो हृतानेन न मे प्रिया ।
विपुलं पश्य विकृतं राक्षसस्य महत्पदम् ॥ १०२५ ॥
सर्वाङ्गभरनिर्भग्नपादाग्रः खमितो गतः ।
मन्ये स सीतामादाय द्वितीयं नास्ति यत्पदम् ॥ १०२६ ॥
यमश्चेत्तु हतं विद्धि का श्लाघा रक्षसां वधे ।
किं मे प्रयान्ति विशिखाः कालस्यापि न कालताम् ॥ १०२७ ॥


१. 'यमस्य' शा०. २. 'तीरे' शा०. ३. 'भ्रष्टः सार्था' शा०.