पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

D ॥ श्रीः ॥ प्रस्तावः । भगवतः यद्यपि 'काव्यालापांच वर्जयेत्' इत्यायुक्त्या काव्यं न कदाऽप्याराधनीय प्रतिपद्यते, तथाऽपि 'काव्यं यशसेऽर्थकृते व्यवहार विदे शिवेटरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ||' इत्याद्युक्त्या लोकोत्तरफलकं तत् कथं परिहेयतया तादृशं शास्त्रमनुशास्तीति विमर्शनीयं साम्प्रतं विवेकिभिर्महद्भिः । अथैवं विमर्शने व्यतिकरावसरे इदमेव निश्चीयते यत् निर्गुणमुद्दिश्य निषेध- शास्त्रं सगुणमुद्दिश्य पुनः प्रशंसयोपादेयताप्रत्यायक शास्त्रम् । तत्राश्लीलत्वा- दिभिः काव्यस्य सदोषत्वं, तदन्यथा सगुणत्वं च । यद्वा पामरजनानां गुणारो- पणे घने काव्यस्य दुष्टत्वं परमेश्वरचरितवर्णने पुन: सगुणत्वं स्यात् इत्येतत् सर्वे विचार्य परोपकारैक प्रवणस्तत्रभवान् महावैयाकरण: श्रीभट्टि - कविर्व्याकरणशास्त्रोपदेश्याथसमर्पणपुरःसरम्मर्यादा पुरुषोत्तमस्य श्रीरामचन्द्रस्य चरितमुपनिबबन्धेति विदितचरं विदुषाम् । तदिदं प्रकृतं महा- काव्यं समस्तशास्त्रान्तरावगमोपकारकं व्याकरणशास्त्राध्ययनफलं समर्प- यन् समस्तशास्त्राधिकारितामुपनीय परमेश्वरचरणानुरागौपयिकतानिदर्शन- च्छलेन परमश्रेयः साधनरूपतामपि समर्थयते । एवं चेदं समस्तपुरुषार्थसाध- कमिदं भट्टिकाव्या परपर्यायं रामचरितं काव्यमिति सिद्धम् । अथ यद्यपि प्रायः प्रसादगुणशाल्यवेदम्, तथाऽपि विषयदुरवबोधतया व्याख्यासापेक्षमिति करुणापारावारीणैर्विबुधैरने कैर्व्याख्याय स्फुटार्थतां नीतम् । तासु च यादृशी पण्डितमणिना जयमङ्गलेन प्रणीता व्याख्याऽन्तेवासिनां झटिति हिताय प्रस्तुता न तादृशी काचिदप्यन्या इति विचार्य तया समवेतमिदं विहितम् । तत्र च यानि सूत्राणि न सर्वात्मनोपन्यस्तानि यानि वा कालमहिम्ना विपरीतात्मतयोपलब्धानि तथैवान्यान्यपि दुरुद्धरशल्यायितानि यानि कानि चिन्मूलर्टाका संवलितानि तानि सर्वाणि यथामति परिष्कृत्य सर्वेषां विदुषां छात्राणां चोपकृतये स्थलावशेषे टिप्पण्या प्रसाधितम् ।