पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् | तेऽभ्यगुर्भवनं तस्य सुप्तं चैक्षिषताथ तम् । •व्याहार्षुस्तुमुलाञ्शब्दान्दण्डैश्चावधिषुतम् ॥ २ ॥ तेऽभ्यगुरित्यादि -- ते राक्षसास्तस्य कुम्भकर्णस्य भवनं गृहम् अभ्य गताः । 'इणो गा लुङि |२|४|४५॥ इति लुङि गादेशः । 'गातिस्थाघुपा भूभ्यः सिचः परस्मैपदेषु । २|४|७७|' इति सिचो लुक् । 'उस्यपदान्तात् ॥६॥ १९९६ |' इति पररूपत्वम् । ते च सुप्त मैक्षिषत दृष्टवन्तः । अथानन्तरं प्रबो- धार्थ तुमुलान्महतो ध्वनीन् व्याहार्षुः व्याहृतवन्तः । दण्डैश्च द्रुतं शीघ्रमवधिषुः आहतवन्तः ॥ २॥ (४०१) केशान लुञ्चिषुस्तस्य गजान् गात्रेष्वचिकमन् । शीतैरभ्यषिचं स्तोयैरलातैश्चाप्यदम्भिपुः ॥ ३ ॥ केशानित्यादि – तस्य केशानलुचिषुः उत्पाटितवन्तः । गात्रेषु गजानचि- क्रमन् क्रमयन्ति स्म । क्रमेर्मान्तत्यान्मित्संज्ञायां ह्रस्वत्वम् । चङि सन्वद्भा- वादद्भ्यासस्य ‘सन्यतः । ७।४।७९।' इति इत्वम् । शीतैस्तोयैरभ्यषिचन् सिञ्च न्ति स्म । अत्र सिचिरभ्युक्षणे वर्तते । तेनोदकस्य करणत्वम् | 'लिपिसिचि- ह्वश्च । ३ । १ । ५३ ।' इत्यङ् । 'प्राक् सिताद्व्यवायेऽपि । ८ । ३ । ६३ । इतित्वम् । अातैरङ्गारश्चाप्यदम्भिषुः दुग्धवन्तः । अनेकार्थत्वाद्धा-. तूनाम् ॥ ३ ॥ नखैर कर्तिपुस्तीक्ष्णैरदाङ्क्षुर्दशनैस्तथा । शितैरतौत्सुः शूलैश्च भेरीवावीबदन् शुभाः ॥ ४ ॥ नखैरित्यादि——तीक्ष्णैर्नखैरकर्तिषुश्छिन्नवन्तः । तथा देशनैस्तीक्ष्णैर दाङ्क्षु:- दशन्ति स्म । दंशेरनिटो हलन्तलक्षणा वृद्धिः । 'ब्रश्चभ्रस्जसृजमृजयजराज-- भ्राजच्छशांषः ।८ । २ । ३६ ।' इति षत्वम् । 'बढो: क: सि |८| २।४१ ।। B शितैरतीक्ष्णैः शूलैरतौत्सुः व्यथयन्ति स्म । तुदेरनिटो हलन्तलक्षणा वृद्धिः भेरीश्च शुभाः उच्चैःशब्दा अवीवदन् वादितवन्तः । 'सन्वल्लघुनि चपरे- ऽनग्लोपे |७|४|९३|' इति सन्वद्भावादभ्यासस्येत्वं 'दीर्घौ लघोः ।७।४।९४ इति दीर्घत्वम् ॥ ४ ॥ स तान् नाजीगणत् सर्वानिच्छयाबुद्ध च स्वयम् । अबूबुधत कस्मान् मामप्राक्षीच निशाचरान् ॥ ५ ॥ १ दन्तैरित्यर्थः । २६