पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३४) मट्टिकाव्ये जयमङ्गलास में ते- • सीतां जिघांस सौमित्रे ! राक्षसावारतां ध्रुवम् । इदं शोणितमभ्यग्रं सर्पहारेऽच्युतत्तयोः ॥ २८ ॥ [ पष्टः- - सीतामित्यादि — इत्येवं लक्ष्मणायाशिवदिति लोकचतुष्टयं यावत् सम्ब- ध्यते । हे सौमित्रे सीतां हन्तुमिच्छन्तौ राक्षसावारतामागताविति ध्रुवं निश्चि तम् । अर्तेराङ्पूर्वापूर्ववदङ् । 'ऋदृशोऽङि गुणः ।७।४।१६।' इति गुणः । कीदृशौ सीतां जिघांसू हन्तुमिच्छू | इन्तेः सनि 'अज्झनगमां सनि |६|४|१६|| इति दीर्घः । 'अभ्यासाच्च |७|३|५५ | इति कुत्वम् । तथा हि-तयोः सीताद्वेषानुनयाभ्यां संप्रहारे युद्धे इदं शोणितम् अच्युतत् गलितम् । 'च्युतिक्षरणे' | अकर्मकोऽत्र । 'इरितो वा |३|१|५७|' इत्य ङ् | अभ्यग्रं प्रत्ययम् ॥ २८ ॥ इदं कवचमच्योतीत् साऽवोऽयं चूर्णितो रथः । एह्यमुं गिरिमन्चेष्टुमवगाहावहे द्रुतम् ॥ २९ ॥ इदमित्यादि-इदं कवचमच्योतीत् भ्रष्टम् । अङभावे सिजेव भवति । अयं रथः सोश्चश्चूर्णित आस्ते । यतश्चैवं तस्मादेहि आगच्छ द्रुतम् । किं पश्चा- द्विलम्बसे । अनुं गिरिमबगाहावडे विलोडयावः । अन्वेषावहै इत्यर्थः । किमर्थम् अन्वेष्टुम् | सीतामित्यर्थात् । एतत्सर्वं पर्वतसमीपे कथ्यते ॥ २९ ॥ मन्युर्मन्ये ममा स्तम्भीद् विषादो ऽस्तभदुद्यतिम् | अजारीदिव च प्रज्ञा वलं शोकात् तथाजरत् ॥ ३० ॥ मन्युरित्यादि-मन्युः शोकः । मन्ये सम्भावये मम ऋन्दतो रामस्य उच्छूनेनेत्रे इति शेषः । अस्तम्भीत् स्तव्धवान् | तथा विषाद उद्यतिम् उद्यम- मित्यर्थः । अस्तभत् । अत्र पक्षे अनुनासिकलोप: । प्रज्ञा च तत्त्वविवेकिनी बुद्धि अजारीत् विवेकवैकल्यात् । जीर्णेव । तथाशब्द: समुच्चये । वलं शोकादजरत् जीर्णम्, स्वकार्याकरणात् । 'ऋदृशोऽङि गुणः |७|४|१६|' इति गुणः।‘जृस्तम्भुञ्जचुम्लचुचुग्लुचुग्लुचिभ्यश्च |३|१|५८ ।। इति सिजङ ॥ ३० ॥ गृध्रस्येहाश्वतां पक्षौ कृत्तौ वीक्षस्व लक्ष्मण | जिवत्सोनूनमापादि ध्वंसोऽयं तां निशाचरात् ॥ ३१ ॥ १ यद्यपि रथस्यैव चूर्णितत्वम्, न तु तदीयानाम् अश्वानाम्, अथापि प्राधान्यादि- दमुक्तम् । एवं च स्थश्चूर्णितोऽश्वा हताश्चेति वक्तव्यम् ।