पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजतरङ्गिणी

समातृचक्रं निर्माय यः पूर्व प्रवरेश्वरम् ।
पुण्याः पुराणाधिष्ठाने प्रतिष्ठा विविधा व्यधात् ॥ ९९ ॥
गृहाङ्गन्नमिव क्षोणीं गणयन्वशवर्तिनीम् ।
त्रिगर्तौवों ग्रामसख्ये प्रवरेशाय यो ददौ ॥ १०० ॥
ईशो नृपाणां निःशेषक्ष्माकेदारकुटुम्बिनाम् ।
स समात्रिशतं भूभृदनिस्त्रिंशाशयोभवत् ॥ १०१ ॥
हिरण्यतोरमाणाख्यौ व्यधत्तामथ तत्सुतौ ।
साम्राज्य युवराजत्वभाजने रञ्जनं क्षितेः ॥ १०२ ॥
वालाहतानां प्राचुर्य विनिवार्यासमञ्जसम् ।
तोरमाणेन दीन्नाराः स्वाहताः संप्रवर्तिताः ॥ १०३ ॥
मामवशाय राशेव कस्मादेतेन वल्गितम् ।
इति तं पूर्वजो राजा क्रोधनो बन्धने व्यधात् ॥ १०४ ॥
चिरं स्थितित्यक्तशुचस्तत्र तस्याञ्जनाभिधा |
ऐक्ष्वाकस्यात्मजा राशी वज्रेन्द्रस्यास्त गुर्विणी ॥ १०५ ॥
आसन्नप्रसवा भर्त्रा सा त्रपार्तेन बोधिता ।
सुतं प्रविष्टा प्रासोष्ट कुलालनिलये क्वचित् ॥ १० ॥
स कुम्भकारगेहिन्या काक्येव पिकशावकः ।
पुत्रीकृतो राजपुत्रः पर्याप्तं पर्यवर्धत ॥ १०७ ॥
जनयित्र्याः कुलाल्याश्च रक्षित्र्या विदितोभवत् ।
रत्नसूतेर्भुजंग्याश्च प्रच्छन्न इव शेवधिः ॥ १०८ ॥
पौत्रः प्रवरसेनस्य गिरा मातुर्नृपात्मजः ।
पैतामहेन नाम्मैव कुलाल्या ख्यापितोभवत् ॥ १०९ ॥
वर्धमानः स संपर्क न सेहे सहवासिनाम् ।
तेजस्विमैत्रीरसिकः शिशुः पद्म इवाम्भसाम् ॥ ११० ॥

१ भ्रात्राहतानां इति स्यात् ।