किरात कातरो मा भूः स्वयं संरक्ष्यते मया । बहुबन्धुस्तव सुतो वध्योप्ययमबान्धवः ॥ ३९ ॥ उपहारीकरोम्येष चण्डिकायै स्वविग्रहम् । मयि प्रहर निःशङ्कं जीवत्वेतज्जनद्वयम् ॥ ४० ॥ तदद्भुतमहासत्त्वचित्तोदात्तत्वविस्मितः। उन्मिषद्रोमहर्षस्तं ततः स शबरोभ्यधात् ॥ ४१ ॥ अतिकारूण्यमिषतस्तवायं पृथिवीपते । कश्चिन्मतिविपर्यासप्रकारो हृदि रोहति ॥ ४२ ॥ त्रैलोक्यजीवितेनापि यो रक्ष्यो हेलयैव तम् । पृथिवीभोगसुभगं कथं कायमुपेक्षसे ॥ ४३ ॥ न मानं न यशो नार्थान्न दारान्न च बान्धवान् । न धर्मे न सुतान्भूपा रक्षन्ति प्राणतृष्णया ॥ ७५ ॥ तत्प्रसीद प्रजानाथ मा वध्येस्मिन्कृपां कृथाः । शिशुश्चैष प्रजाश्चैता जीवन्तु त्वयि जीवति ॥ ५५॥ उपाजिहीर्षुरात्मानं दन्तद्योतार्घडम्बरैः । अर्च॑यन्निव चामुण्डामथोवाच स पार्थिवः॥ ४६॥ सदाचारसुधास्वादे के भवन्तो वनौकसः। जान्हवीमज्जनप्रीतिं न जानन्ति मरुस्थिताः ॥ ४७ ॥ ध्रुवापायेन कायेन कीणतः कीर्तिमव्ययाम् । ममाभीष्टं प्रमार्ष्टुं ते मूढ रूढोयमाग्रहः ॥ ४८ ॥ मा वोचः किंचिदपरं प्रहर्तुं चेद्धृणा तव । न किं निजः कृपाणो मे शक्तः प्रकान्तसिद्धये ॥ ७९ ॥ इत्युक्त्वा स स्वयं देहमुपहर्तुं समुद्यतः । खण्डनाय स्वमुण्डस्य विकोशं शस्त्रमादधे ॥ ५० ॥