पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३० राजतरङ्गिणी

नरः षष्टिं तस्य सुनुस्तावतोक्षश्च तत्सुतः ।
वर्षानभूद्विभुर्ग्रामं योक्षवालमकारयत् ॥ ३३८ ।
जुगोप गोपादित्योथ क्ष्मां सद्वीपां तदात्मजः ।
वर्णाश्रमप्रत्यवेक्षादर्शितादियुगोदयः ॥ ३३९ ॥
सखोलखागिकाहाडिग्रामस्कन्दपुराभिधान्
शमाङ्गासमुखांश्चाग्रहारान्यः प्रत्यपादयत् ॥ ३४०
ज्येष्ठेश्वरं प्रतिष्ठाप्य गोपाद्वावार्यदेशजाः |
गोपाग्रहारान्कृतिना येन स्वीकारिता द्विजाः ॥ ३४१ ॥
भूक्षीरवाटिकायां यो निर्वास्य लशुनाशिनः ।

खासटायां व्यथान्विप्रान्निजाचारविवर्जितान् ॥ ३४२ ॥
अन्यांश्चानीय देशेभ्यः पुण्येभ्यो वश्चिकादिषु ।
पावनानग्रहारेषु ब्राह्मणान्स न्यरोपयत् ॥ ३४३ ॥
उत्तमो लोकपालोयमिति लक्ष्म प्रशस्तिषु ।
यः प्राप्तवान्विना यज्ञं चक्षमे न पशुक्षयम् ॥ ३४४ ॥
सषदिनां वर्षषष्टिं पालयित्वा स मेदिनीम् ।
भोक्तुं पुण्यपरीपाकं लोकान्सुकृतिनामगात् ॥ ३४५ ॥
गोकर्णस्तत्सुतः क्षौणीं गोकर्णेश्वरकृद्दधे ।
अष्टपञ्चाशतं वर्षात्रिंशत्याहां विवर्जितान् ॥ ३४६ ॥
सूनुर्नरेन्द्रादित्योस्य खिसिलान्याभिधोभवत् ।
भूतेश्वरप्रतिष्ठानामचविण्याश्च कारकः ॥ ३४७ ॥
दिव्यानुग्रहभागुग्राभिधो यस्य गुरुर्व्यधात् ।
उग्रेशं मातृचक्रं च प्रभावोद्ग्रविग्रहः ॥ ३४८ ॥
भूत्वा षशितं वर्षाञ्शतं चाह्नां विभुर्भुवः |
स दीर्घेरनघाल्लोकानासदत्सुकृतैः कृती ॥ ३४९ ॥