सामग्री पर जाएँ

पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१६४
राजतरंगिणी


ललितादित्यभूभरुद्योगेन बलीयसा ।
किंचिदाकॄष्टसलिलः प्रापोत्पत्तिं मनाक्ततः ॥ ६९ ॥
जयापीडे कमाद्याते स्वल्पवीर्येषु राजसु ।
सलिलोपप्ल्वौरासीत्पुनरेवावृता क्षितिः ॥ ७० ॥
दीन्नाराणां दराशती पश्चाशदधिकाभवत्‌ ।
धान्यखारीक्रये हेतुर्देशे दुर्भिक्षविक्षते ॥ ७१ ॥
अवन्तिवर्मणः पुण्यैर्जन्तूञ्जीवयितुं ततः।
स्वयमन्नपतिः श्रीमान्सुय्यः क्षितिमचातरत्‌ ॥ ७२॥
यस्याविज्ञातसंभूतेस्तुर्ये कालेपि निश्चितम्‌।
अयोनिजत्वं कृतिनश्चरितैर्भुवनाद्भुतेः ॥ ७२ ॥
पुरा रथ्यारजःपुञ्जं संमार्जन्ती पिधानवत्‌ ।
पूयाभिधाना नण्डाली मृद्भाण्डं प्राप नूतनम्‌ ॥ ७४७ ॥
तस्मिन्पिधानमुद्द्धृत्य सापश्यन्मध्यशायिनम् ।
बालं कमलपत्राक्षं धयन्तं स्वकरांगुलीः ॥ ७५ ॥
मात्रा कयापि त्यक्तोसौ सुन्दरो मन्दभाग्यया ।
अथेति चिन्तयन्यासीत्सा स्नेहात्प्रस्नुतस्तनी ॥ ७६ ॥
अदुषयन्त्या स्पर्शेन धात्र्याः शूद्रस्त्रियौ गृहे ।
तया विदितवृत्तिः स शिशुर्वृद्धिमनीयत् ॥ ७७ ॥
स सुय्यनामा मतिमान्प्रवृद्धः शिक्षिताक्षरः।
कस्याप्यासीद्गृहपतेरर्भकाध्यापको गृहे ॥ ७८ ॥
व्रतस्नानादिनियमैस्तं सतां हदयंगमम्‌ ।
गोष्ठीषु विशदप्रज्ञं विदग्धाः पर्यवारयन्‌ ॥ ७९ ॥
तेषां कथाव्यवस्थासु निन्दतां जलविप्लवम् ।
धीरस्ति मे निरर्थस्तु किं कुर्यामिति सोब्रवीत्‌ ॥ ८० ॥

१ सुय्याभिधाना इति स्यात्‌ ।