पृष्ठम्:राजतरङ्गिणी प्रथमो भागः.djvu/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
right
राजतरङ्गिणी


नरनागाश्वबहुरं तया सैन्यं महीपतेः ।
प्रवृध्दया प्लाव्यमानं क्षणात्संक्षयमाययौ॥५४१॥
नृपतिवीचिसंमर्दभ्रंशिताभरणांशुकः।
बाहुभ्यां लहरीश्छिन्दञ्जलैर्दूरमनीयत ॥ ५७२ ॥
एकस्य करुणाक्रन्दैः सैन्यस्यान्यस्य गर्जितैः ।
सरित्तरङ्गघोषैश्च बभूवुस्तुमुला दिशः ॥ ५७२ ॥
क्षिप्रकारी सद्दतिभिः संनध्दैः सरितोन्तरात् ।
स चाकृष्य जयापीडं बबन्ध विहितोत्सवः।।५४४॥
दैवस्याम्बुमुचश्च नास्ति नियमः कोप्यानुकूल्यं प्रति
व्यञ्जन्यः प्रियमुत्कटं घटयते जन्तोः क्षणादप्रियम् ।
क्षिप्रं दीर्धनिदाघवासरविपत्संतापनिर्वापणं
प्रादुष्कृत्य वनस्पतेः प्रकुरुते विद्युद्धिसर्गं च यः ॥ ५७५ ॥
स कालगण्डिकातीराश्रयात्युच्चाश्यवेश्मनि ।
निचिक्षेप जयापीडमाप्तानां रक्षिणां करे ॥ ५४६ ॥
तथा काश्मीरिका राजा निमग्नोः व्यसने पुनः।
स किंकर्तव्यतामूढः शुचा गूढमदह्यत ॥ ५४७ ॥
कलावत्सु शशाङ्कोपि तेजस्विष्वर्य मापि तम्‌।
न ददर्श यथा धीमान्स ररक्ष तथा नृपः ॥ ५४८ ॥
अपश्यन्निर्गतः किंचिदालोकन्यस्तलोचनः ।
आसन्नां तटिनीमासीदुपायांश्च स चिन्तयन्‌ ॥ ५४९. ॥
अवस्थावेदकास्तत्र प्रथिताः पृथिवीभुजा ।
आर्द्रन्तःकरणैः श्लोकाः स्मर्यन्तेद्यापि सूरिभिः ॥ ५५० ॥
तथा तस्मिन्स्थिते मानी देवशर्मैव मन्त्रिषु ।
चिन्तयन्स्वामिसंमानमनिश पर्यतप्यत ॥ ५५१ ॥