सिंहासनं जितादादौ कन्यकुब्जमहीभुजः।
स राज्यककुदं राजा जहारोदारपौरुषः ॥ ४७१ ॥
तस्मिन्प्रविष्टे स्वभुवं स्फूर्जदूर्जितविक्रमे ।
सैन्यैः समं समित्सज्जैर्जज्जो योद्धुं विनिर्ययौ ॥ ४७२ ॥
शुष्कलेत्राभिधे ग्रामे तेन सार्धं सुदारूणः।
जयापीडस्य संग्रामः सुवहृनि दिनान्यभूत् ॥ ४७३ ॥
अनुरक्तप्रजो राजा जज्जराज्यासहिष्णुभिः।
युधि सोन्विप्यमाणोभूद्ग्राम्याटविकमण्डलैः ॥ ४७४ ॥
श्रीदेवो ग्रामचण्डालः प्राप्तो ग्राम्यैः समं युधि।
कोत्र जज्ज इति भ्राम्यन्योधान्पप्रच्छ सर्वतः ॥ ४७५ ॥
तृष्णार्तं स्वर्णभृङ्गारात्पिबन्तं वारि तस्यते।
रणमध्ये हयारूढं तं दूरात्समदर्शयन् ॥ ४७६ ॥
भ्रमयन्क्षेपणीयं स क्षिप्त्वाश्मानं तदानने ।
सोयं हतो मया जज्ज इत्यमोघक्रियोनदत् ॥ ४७७ ॥
साहायकाय राज्ञोहं यामीत्युक्त्वार्थिताशनः।
मातुर्हसन्त्या जज्जस्य प्रतिज्ञायाययौ वधम् ॥ ४७८ ॥
अश्मसंरुग्णभीमास्यं मुमूर्षुं पतितं हयात् ।
विवेष्टमानं मेदिन्यां जज्ज त्यक्त्वा ययुर्निजाः ॥ ४७९ ॥
स समर्थाहितापातचिन्तासततदुःस्थितः।
द्रोहाज्जितेन राज्येन त्रिभिर्वर्षैर्व्ययुज्यत ॥ ४८० ॥
न्यासापहाराद्वणिजां वेश्यानां कामिवण्चनात् ।
द्रोहाचोपनता राज्ञामस्थिरा पव संपदः ॥ ४८१ ॥
हते जज्जे जयापीडः प्रत्यावृत्य निजां श्रियम् ।
जग्राह दोष्णा भूभारं कृत्येन च सतां मनः ॥ ४८२ ॥
१ सोन्वीयमानो इति स्यात् । २ द्रोहार्जितेन इति स्यात् ।