पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. रसगङ्गाधरः। पदार्थस्यैवाभेदाध्यवसानं 'कनकलतायां विराजते चन्द्रः' इत्यादौ दृष्टम्, न तु व्यवहारेण व्यवहारस्येत्यविषय एवायमतिशयोक्तेः । नापि सादृश्यमूलयाप्रस्तुतप्रशंसया । धर्म्यंशेऽप्रस्तुतत्वविरहात् । नापि निदर्शनया । एकधर्मिगतव्यवहारद्वयोपादान एव तस्या इष्टेः । अत एव 'उपात्तयोः' इति तल्लक्षणे विशेषणमुक्तम् । प्रकृते च प्रकृतव्यवहारस्यानुपात्तत्वादलंकारान्तरमेव । एवं च 'क्व. सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ।।' इत्यत्र काव्यप्रकाशकारो यन्निदर्शनामुदाहार्षीत्तदसंगतमेव । ललितस्या- वश्याभ्युपगम्यत्वान्निदर्शनाया अत्राप्राप्तेश्च । तदित्थं ललितस्यालंकारान्तरत्वमुरीकुर्वतामाशयः । अन्ये तु "ललितं नालंकारान्तरम् । निदर्शनयैव गतार्थत्वात् । नन्वेकर्मिगतप्रस्तुताप्रस्तुतव्यवहारद्वयोपादानजीविता निदर्शना कथमप्रस्तुतव्यवहारमात्रोपादाने पदमाधत्तामिति चेत्, श्रूयतामायुष्मता । इह तावदलंकाराः प्रायशः श्रौता आर्थाश्च संभवन्ति । तत्र श्रौतेभ्य आर्था न पृथगलंकारत्वेन गण्यन्ते । किं तु पृथग्भेदत्वेन । तदलंकारसामान्यलक्षणेन क्रोडीकरणात् । इदं पुनर्वाक्यार्थनिदर्शनास्वरूपम्-व्यवहारद्वयवद्धर्म्यभेदप्रतिपादनाक्षिप्तो व्यवहारद्वयाभेदः । तत्र व्यवहारद्वयवद्धर्म्यभेदस्य प्रतिपादनं श्रौतमेवापेक्षितमिति न नियमः । किं तु प्रतिपादनमात्रम् । तेन 'परद्रव्यं हरन्मर्त्यो गिलति क्ष्वेडसंचयम्' इत्यत्र व्यवहारद्वयवद्धर्मिणोरभेदस्य श्रुत्या प्रतिपादन इव 'धिक्परस्वं तथाप्येष गिलति क्ष्वेडसंचयम्' इत्यत्रार्थप्रकृतव्यवहारवद्धर्मिश्रौताप्रकृतव्यवहारवद्धर्मिणोरार्थाभेदस्य प्रतिपादनेऽपि वाक्यार्थनिदर्शनात्वमक्षतम् । एकत्र श्रौतीत्वमपरत्रार्थीत्वमिति तु विशेषो न वार्यते । पदार्थनिदर्शनास्वरूपं तूपमानोपमेयधर्मयोरभेदाध्यवसायमूल उपमेय उपमानधर्मसंबन्ध इति पृथगेव । एतदुभयान्यतरत्वं च प्राचीनरीत्या सामान्यलक्षणम् । प्राग्वदाह-अथेति । प्रशंसया गतार्थता इत्यस्यानुषङ्गः । एवमग्रेऽपि । एवं चैत्य- स्यार्थ स्पष्टयति –ललितेति । पदं स्थानम् । पुनस्त्वर्थे । ललितमेवेति । न तुर(?)