पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४९८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

'अ- रसगङ्गाधरः। तु प्रागिदमुदाहृतमस्माभिः । अत एव तत्र कैमुतिकन्यायेनेत्युक्तम् । एवं च 'कमपरमवशं न विप्रकुर्युविभुमपि तं यदमी स्पृशन्ति भावाः', अवस्थेयं स्थाणोरपि भवति सर्वामरगुरोर्विधौ वक्रे मूर्ध्नि स्थितवात वयं के पुनरमी' इत्यादि सर्वस्वकृता यदुदाहृतं तन्नातीव हृदयंगमम् । यत्तु- 'कैमुत्येनार्थसंसिद्धिः काव्यार्थापत्तिरिष्यते' इति कुवलयानन्दकता अस्या लक्षणं निर्मितं तदसत् । कैमुतिकन्यायस्य न्यूनार्थविषयत्वेनाधिकार्थापत्तावव्याप्तेः । यथा- 'तवाग्ने यदि दारिद्यं स्थितं भूप द्विजन्मनाम् । शनैः सवितुरप्यग्रे तमः स्थास्यत्यसंशयम् ॥' अत्र शनैःशब्दमहिम्ना राजाने दारिद्यस्थित्यपेक्षया सूर्याग्रे तमोऽवस्थानं दुःशकमेवेत्यवगतमपि न्यायसाम्यादापाद्यते, न तु कैमुतिकन्यायेनेति । इति रसगङ्गाधरेऽर्थापत्तिप्रकरणम् । अथ विकल्पः- विरुद्धयोः पाक्षिकी प्राप्तिर्विकल्पः । एकस्मिन्धर्मिणि स्वस्वप्रापकप्रमाणप्राप्तयोरत एव तुल्यबलयोर्विरुद्धयोविरुद्धत्वादेव युगपत्प्राप्तेरसंभवात्पाक्षिक्येव प्राप्तिः पर्यवसन्ना । अयं च समुच्चयस्य प्रतिपक्षभूतः । व्यतिरेक इवोपमायाः । अत्र च विकल्प्यमानयोरौपम्यमलंकारताबीजम् । तदादायैव चमत्कारस्योल्लासात् । अन्यथा तु विकल्पतामात्रम् । यथा 'जीवनं मरणं वास्तु नैव धर्म त्यजाम्यहम्' इत्यादौ । अत्र जीवनमरणयोनौपम्यस्य प्रतीतिः । उदाहरणम्- प्राग्वदाह-अथेति । तत्र अर्थापत्त्यलंकारे । न तु कैमुतिकन्यायेनेति । अत्रेदं चिन्त्यते-तवाग्रे यदीत्यत्र वक्ष्यमाणसंभावना यद्यर्थातिशयोक्तिर्वालंकारः । न च यद्यर्थातिशयोक्तावापाद्यापादकयोर्विपरीतार्थविश्रान्तत्वम् । इह त्वापादकस्य सिद्धत्वादापाद्यस्य संभाव्यमानत्वमिति विशेष इति वाच्यम् । न्यूनत्वाधिक्यादिभिरर्थांपत्तिभेदस्य त्वया कल्पनवत्तस्या एव तथाविधभेदस्य कल्पने क्षत्यभावात् । न च कैमुत्येन सिद्धिरपि तद्भेद एवास्तु । प्राचामनुरोधेन भिन्नतयोक्तेः । [न च] कैमुत्यकृतश्चमत्कारोऽपि तद्भेदकताया एव साधकोऽस्त्विति वाच्यम् । तत्कृतचमत्कारस्यालंकारभेदजनकताया दुरपहवाच्चेति दिक् ॥ इति रसगङ्गाधरमर्मप्रकाशेऽर्थापत्तिप्रकरणम् ॥ प्राग्वदाह-अथेति । सा च न शाब्दीत्याह-एकस्मिन्निति । [भजनेषु त-