पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४८७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

४७६ काव्यमाला। पूर्वत्वलिङ्गलिङ्गिनोः शुद्धत्वम्, इह तु रूपकानुप्राणितत्वमिति विशेषः । कविप्रतिभोल्लिखितत्वं पुनः स्फुटमेव । इह यत्र लिङ्गलिङ्गिनोः सत्त्वं तत्र मन्ये शङ्के अवौमि जाने इत्यादिपदानामनुमितिबोधकत्वम्, यत्र तु साद्दश्यादिनिमित्तसद्भावस्तत्रोत्प्रेक्षाबोधकतेति विवेकः । तेन 'मन्मथामात्यमायान्तमहं मन्ये महामहम् । चक्षुश्चमत्कृति धत्ते यदहो किल कोकिलः ॥' इत्यादावनुमैव, नोत्प्रेक्षा। अत्रेदं बोध्यम्-मन्ये इत्यादिवाचकपदोपादाने वाच्यमनुमानम् । यथानन्तरोक्ते । वक्तिकथयतीत्यादिलक्षकपदोपादाने लक्ष्यम् । यथा 'कोकाः सशोकाः' इत्यादौ । तदन्यतरानुपादाने साध्याक्षिप्तायामनुमितौ प्रतीयमानम् । यथा 'अम्लायन्-' इति पद्ये 'तद्भावी तव देव संप्रति महोमार्तण्डबिम्बोदयः' इति चतुर्थचरणनिर्माणे । साध्यस्याप्यनुपादाने लिङ्गमात्रोपादानेन यत्रागूर्यमाणं साध्यं तत्र ध्वन्यमानम् । यथा- 'गुञ्जन्ति मञ्जु परितो गत्वा धावन्ति संमुखम् । आवर्तन्ते विवर्तन्ते सरसीषु मधुव्रताः ॥' अत्र शरदागमस्य साध्यस्यानुमानं ध्वन्यते । एवमेषा व्यवस्था न प्रागुक्ते करणमनुमानमिति नये संगच्छते । करणस्य ज्ञायमानलिङ्गत्वपक्षे वाच्यतायाः केवलाया आपत्तेः । लिङ्गज्ञानत्वपक्षे वाच्यत्वलक्ष्यत्वयोरनापत्तेः । अतोऽनुमितिरेवानुमानम् । तस्याश्च वाच्यत्वलक्ष्यत्वप्रतीयमानत्वध्वन्यमानत्वानां साम्राज्यम् । ल्युटश्च करण इव भावेऽपीति । इति रसगङ्गाधरेऽनुमानप्रकरणम् । अथ यथासंख्यम्- उपदेशक्रमेणार्थानां संबन्धो यथासंख्यम् । पदार्थानतिवृत्तिरूपे यथार्थेऽव्ययीभावः । संख्याया अनतिवृत्तिश्च रादिसाधारणम् । शङ्कते-वक्ष्येति । इह अनुमानालंकारे । पुनस्त्वर्थे । उभयत्रेति भावः । भावेऽपीति । विधिरिति शेषः ॥ इति रसगङ्गाधरमर्मप्रकाशेऽनुमानप्रकरणम् ॥