पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला । अत्र शिशुत्वं शुद्धैकसुबन्तार्थोऽपराधक्षमाकरणे हेतुः । तथा दिव्यमहिमत्वमचिन्त्यमाहात्म्य सुबन्तार्थविशेषितसुबन्तार्थरूपं ब्रह्मादिचित्तदुप्रापत्वे । एवं तादृशपरमेश्वरगुणकर्मकस्तवो मन्तौ । तादृशस्तवे च विशृङ्खलत्वमिति शुद्धसुबन्तार्थोदाहरणे विशिष्टसुबन्तार्थस्याप्युदाहरणम् । 'तवालम्बादम्ब स्फुरदलघुगर्वेण सहसा मया सर्वेऽवज्ञापुरपथमनीयन्त विबुधाः । इदानीमौदास्यं यदि भजसि भागीरथि तदा निराधारो हा रोदिमि कथय केषामिह पुरः ॥' अत्र निराधार इत्यादिनाभिव्यक्ते वक्तृनिष्ठसकलकर्तृकद्वेषे आत्मकर्तृकावज्ञापुरपथनयनरूपः सुबन्तार्थविशेषितस्तिङन्तार्थ उपपादकः । 'विश्वास्य मधुरवचनैः साधून्ये वञ्चयन्ति नम्रतया । तानपि दधासि मातः काश्यपि यातस्तवापि च विवेकः ॥ अत्रापि पृथिवीविवेकनाशोपपादने तिङन्तार्थस्य धारणस्य सुबन्तार्थविशेषितस्य तस्यैव जनधारणात्मनो वा असामर्थ्यात्साधुवश्चनरूपपूर्ववाक्यार्थविशेषितं धारणं हेतुः । विशेषणत्वं च कर्मणि विशेषणत्वात्परम्परया बोध्यम् । एते च भेदाः प्राचीनकल्पितपदार्थवाक्यार्थभेदद्वयवच्चातुयमात्रेण कल्पिताः, न तु वैचित्र्यविशेषेण । अथानुमानादस्य को विशेषः । ननु व्याप्यत्वपक्षधर्मत्वाभ्यां ज्ञायमानमेवार्थसाधकमनुमानम्, स्वरूपेण ज्ञायमानं प्रकृतार्थोपपादकं काव्यलिङ्गमिति विशेष इति चेत्, न । उपपादकं हि सत्यां युक्तौ । सा तु सति व्यभिचारपक्षावृत्तित्वयोरन्यतरस्यापि ज्ञाने न संभवति । यथा 'विनिन्द्यान्युन्मत्तैः' इत्युदाहृतपद्ये तादृशश्रमाभाव उत्कर्षव्यभिचरितो भागीरथ्यवृत्तिर्वैति ज्ञाने जात्वपि न सर्वोत्कर्षः सेद्धुमीष्टे । सेद्धुमीष्टे च सर्वोत्कर्षाव्यभिचरितो भागीरथीवृत्तिश्चेति ज्ञाने । एवं हेतोः सर्वत्राप्युपपाद्याव्यभिचरितज्ञान एवोपपत्तिः । अन्यथा तु इदमेवमनेवं वा स्यादिति संदेह एव । तस्मादुपपत्तिसमर्थनादिविलक्षणशब्दप्रयोगा आलंकारिकाणामनुमितिसरणिमेवाभिनिविशन्ते । न च समर्थना दृढप्रत्ययः, न त्वनुमितिरिति वाच्यम् । स हीन्द्रियसंनिकर्षाभा-