पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। तादृशाधिकरणभिन्नत्वे मानाभावात् । अनयैव दिशापकर्षोऽप्युदाहार्यः । इदं तु बोध्यम्-एकविषये शृङ्खलाया अचारुत्वात्तदनुप्राणितः सारो न चारुतां धत्ते । तस्याः स्वाभाविकभेदापेक्षित्वेनावस्थादिकृतभेदेऽनुल्लासात् । अत एवास्मिन्विषये वर्धमानकालंकारोऽन्यैरङ्गीकृतः । तल्लक्षणं च 'रुपधर्माभ्यामाधिक्ये वर्धमानकम्' इति कृतम् । तस्मात्कारणमालादिर्यथा शृङ्खलैकविषयः, न तथा सारः शक्यो वक्तुम् । एकविषयेऽलंकारान्तराभ्युपगमप्रसङ्गात् । 'गुणस्वरूपाभ्यां पूर्वपूर्ववैशिष्टये सारः' इति तु लक्षणं सारस्य युक्तम् । स च क्वचिच्छृङ्खलानुप्राणितः क्वचित्स्वतन्त्र इत्यनेकविषयत्वमेकविषयत्वं च सुस्थम् । एवं शृङ्खलाविषयाणामलंकाराणां विच्छित्तिवैलक्षण्यस्यानुभवसिद्धत्वात्पृथगलंकारत्वे सिद्धे शृङ्खलाया विरोधाभेदसाधर्म्यादिवदनुप्राणकतैवोचिता, न पृथगलंकारता । तथात्वे भेदादीनामपि पृथगलंकारतापत्तेः । पूर्णालुप्तादौ तु न विच्छित्तिवैलक्षण्यम्, अपि तूपमाविच्छित्तिरेवेति संप्रदायः। ननु केयं विच्छित्तिः । उच्यते- अलंकाराणां परस्परविच्छेदस्य वैलक्षण्यस्य हेतुभूता जन्यतासंसर्गेण काव्यनिष्ठा कविप्रतिभा, तज्जन्यत्वप्रयुक्ता चमत्कारिता वा विच्छितिः । इति रसगङ्गाधरे सारप्रकरणम् । अथ काव्यलिङ्गम्- अनुमितिकरणत्वेन सामान्यविशेषभावाभ्यां चानालिङ्गितः प्रकृतार्थोपपादकत्वेन विवक्षितोऽर्थः काव्यलिङ्गम् । उपपादकत्वं च तन्निश्चयजनकज्ञानविषयत्वम् । अनुमानार्थान्तरन्यासयोर्वारणायानालिङ्गितान्तम् । उपमादिवारणायोपपादकत्वेनेत्यन्तम् । पञ्चम्यादिशब्दप्रतिपादितहेतुत्वकस्य हेतोरेव वारणायोपपादकत्वेन विवक्षित इति । न तु शब्दात्तेन रूपेण बोधित इत्येतदर्थफलकम् । तेन 'भयानकत्वात्परिवर्जनीयो दयाश्रयत्वादसि देव सेव्यः' इत्यादौ नायमलंकारः । गम्यमानहेतुत्वकस्यैव हेतोः सुन्दरत्वेनालंकारिकैः काव्यलिङ्गताभ्युपगमात् । तच्च सुबन्ततिङन्तार्थत्वाभ्यां तावद्विविधम् । आद्यमपि प्राग्वदाह-अथेति । तच्च काव्यलिङ्गम् । अत्रापि अनयोरपि । व्रातं समूहः ।