पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। लौकिकव्यवहारगोचरता । संसर्गश्च तावद्विविधः-उत्पत्तिलक्षणः संयोगादिलक्षणश्च । तत्रोत्पत्तिलक्षणस्य संसर्गस्यायोग्यत्वं कारणात्स्वगुणविलक्षणगुणकार्योत्पत्त्या । इष्टसाधनतया निश्चितात्कारणादनिष्टकार्योत्पत्तिभिः संयोगादिलक्षणस्यापि । संसर्गिणोरन्यतरगुणस्वरूपतिरस्कार्यान्यतरगुणस्वरूपतया अयोग्यत्वम् । एवं चाननुरूपसंसर्गत्वेन सामान्येनोक्ता वक्ष्यमाणाश्च सर्वे प्रभेदाः संगृह्यन्ते । क्रमेणोदाहरणानि- 'अमृतलहरीचन्द्रज्योत्स्नारमावदनाम्बुजा- न्यधरितवतो निर्मर्यादप्रसादमहाम्बुधः। उदभवदयं देव त्वत्तः कथं परमोल्बण- प्रलयदहनज्वालाजालाकुलो महसां गणः ॥' अत्र माधुर्यशैत्याह्लादकत्वप्रसादाद्यनेकगुणयुक्तात्कारणात्तद्विरुद्धगुण- युक्तस्य प्रतापस्योत्पत्तिरित्यननुरूपः कार्यकारणभावः । अभेदाध्यवसानलक्षणेनातिशयेन समवायिकारणरूपतया स्थिते निमित्तकारणे समवेतकार्यरूपतया स्थिते निमित्तिकार्ये वा विषयांशमालम्ब्य स्फुरितो विरोधो विषयांशविमर्शोत्तरं निवर्तत इतीहाप्यभेदाध्यवसानस्यानुप्राणकत्वम्, तदुत्थापितविरोधाभासस्य च परिपोषकत्वम् । अयमेव चांशोऽत्र कविप्रतिभानिर्मितत्वादलंकारताबीजम् । इष्टसाधनतया ज्ञातात्कारणादनिष्टकायोत्पत्तिरित्यत्रैकशेषघटित एकशेषो बोध्यः । न इष्टमनिष्टम् अनर्थः । तादृशकार्योत्पत्तिश्च । न इष्टकार्योत्पत्तिरनिष्टकार्योत्पत्तिः सा चेत्यनिष्टकार्योत्पत्ती । ते च अनिष्टकार्योत्पत्तिश्च [अनिष्टकार्योत्पत्तिश्च] अनिष्टकार्योत्पत्तयः ताभिरिति । अनेनेष्टकार्यानुत्पत्त्यनिष्टकार्योत्पत्ती मिलिते एको भेदः । प्रत्येकं च भेदद्वयम् । इति त्रयो भेदाः संगृहीता भवन्ति । इष्टं च-स्वस्य किंचित्सुखसाधनवस्तुप्राप्तिर्दुःखसाधनवस्तुनिवृत्तिश्च परस्य दुःखसाधनवस्तुप्रापणं सुखसाधननिवृत्तिश्चेति चतुर्विधम् । तेनेष्टाप्राप्तिघटिते भेदद्वयेऽपि चातुर्विध्यम् । अनिष्टं च-स्वस्य दुःख- यस्य तदाह-इष्टेति । एवं सत्याह-संसर्गिणोरिति । तमेवाह-अनेत्यादि । अनिष्टकार्योत्पत्तिश्चेति । आद्ये नञा इष्टकार्योत्पत्तिशब्देन समासः, द्वितीये इष्टशब्देनेति । सुखसाधनवस्तुनाशश्चेतीति । अत्रापि परस्येत्येव बोध्यम् । गाव इ.