पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। त्वविशिष्टं मदकारणत्वं यौवनस्योक्तम् । एवं च यौवनस्य मदकारणतायाः शब्देनैवोपात्तत्वात् यागे व्रीहियवयोरिव मदे यौवनासवयोः परस्परनिरपेक्षकारणत्वावगतेर्विरोधस्य लेशतोऽप्यप्रतिभानाद्विभावनैव नास्ति । कुतः पुनरुक्तनिमित्ता विभावना । न चासवस्य प्रसिद्धमदकारणत्वात्तेन विना मदोत्पत्तिवर्णने विरोधप्रतिभा भवत्येवेति वाच्यम् । भवेत्सा, यदि यौवनस्य मदकारणत्वं कविना साक्षान्न प्रतिपाद्येत । प्रतिपादिते तु तस्मिन्प्रसिद्धकारणातिरिक्ततया कविना प्रतिपादितमिदमपि प्रसिद्धकारणमिव कारणान्तरं भविष्यतीति वैकल्पिककारणताप्रतिभानान्न विरोधप्रतिभानं भवितुमर्हति । तस्मादत्र प्रथमतृतीयचरणयोन्यूनाभेदरूपकम् । द्वितीयचरणे तु प्रतीयमानोत्प्रेक्षेति विवेकः । अस्मन्निर्मिते तूदाहरणे दहनस्यैव प्रसिद्धदाहकारणत्वाद्यौवनस्य दाहकारणताया अश्रुतत्वाद्दहनमन्तरेण दाहोत्पत्तिवर्णने विरोध आपततः प्रतीयत एवेति सहदयैराकलनीयम् । अथ 'लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति' इत्यत्र विभावनापत्तिर्नन्वस्तु, किं नश्छिन्नमिति चेत् । आलंकारिकैरत्र तस्यानङ्गीकारात् । ननु कारणतावच्छेदकरूपावच्छिन्नप्रतियोगिताकत्वेन कारणाभावो विशेषणीयः । प्रकृते च कारणत्वावच्छिन्नप्रतियोगि- ताकः प्रसिद्ध कारणत्वावच्छिन्नप्रतियोगिताको वा भावो न तादृशरूपावच्छिन्नप्रतियोगिताक इति चेत्, ‘खला विनैवापराधं भवन्ति खलु वैरिणः' इत्यत्र तथाप्यतिव्यापनात् । अपराधाभावस्य तथात्वात् । न च कार्याशोऽतिशयोक्त्यालीढत्वेनाभेदनिश्चयालीढत्वेन वा विशेषणीय इति वाच्यम् । 'खला विनैवापराधं दहन्ति खलु सज्जनान्' इत्यादौ तथापि दोषानुद्धारादिति चेत् । मैवम् । कार्यांशे यद्विषयितावच्छेदकं तदवच्छिन्नकार्यतानिरूपितायाः कारणताया अवच्छेदकमिह ग्राह्यम् । दाहत्वं चेह विषयितावच्छेदकम् । तदवच्छिन्नाभिन्नत्वेन पीडाया अध्यवसानात् । नहि दाहत्वावच्छिन्नकार्यतानिरूपितकारणताया अवच्छेदकमपराधत्वम् । अपि तु दाहत्वावच्छिन्नाभिन्नत्वेनाध्यव-