पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'सातपत्रं दहत्याशु प्रतापतपनस्तव ।' 'शङ्खाद्वीणानिनादोऽयमुदेति महदद्भुतम् ।' 'शीतांशोः किरणा हन्त दहन्ति सुदृशो दशौ ।' 'यशःपयोधिरभवत्करकल्पतरोस्तव ।" इति षट्प्रकारां विभावनामुदाजहार कुवलयानन्दकत् । तत्रेदं वक्तव्यम् - 'कार्योत्पत्तिस्तृतीया स्यात्सत्यपि प्रतिबन्धके । अकारणात्कार्यजन्म चतुर्थी स्याद्विभावना ॥' इत्यादिभिर्विभावनाप्रकारानालक्षयता विनापि कारणं कायोत्पत्तिरित्यप्येको विभावनाप्रकार इत्युक्तं भवति । अन्यथा चतुर्थीत्वाद्यसंगतेः । एवं च यथा-'सादृश्यमुपमा भेदे', 'तद्रूपकमभेदो य उपमानोपमेययोः' इत्यादिभिर्लक्षितस्योपमारूपकादिसामान्यस्य पूर्णादयः सावयवादयश्च भेदा उक्तास्तथेह किं तद्विभावनासामान्यलक्षणम्, यल्लक्षितस्य विभावनासामान्यस्यामी भवतोक्ताः प्रकारा उपपद्येरन् । कारणं विना कार्योत्पत्तेस्तु प्रकारान्तःपातित्वात् । अथातिशयोक्त्यादिष्विव तादृशसकलप्रकारान्यतमत्वं सामान्यलक्षणमुन्नेयमिति चेत्, एवमपि प्रथमप्रकाराद्वितीयप्रकारस्य वैलक्षण्यं दुरुपपादमेव । कारणाभावेऽपि कार्योत्पत्तिरित्यत्र कारणतावच्छेदकसंबन्धेन कारणतावच्छेदकावच्छिन्नप्रतियोगिताकाभावस्य विवक्षितत्वात् । प्रकारान्तरस्वीकारापेक्षया तादृशविवक्षाया एव लघुत्वात् । एवं प्रतिबन्धकमपि कारणाभाव एव । प्रतिबन्धकाभावस्य कारणत्वात् । इति तृतीयोऽपि भेदो न विलक्षणः । चतुर्थेऽपि भेदे कारणाभाव आर्थः । 'शङ्खाद्वीणानिनादोऽयम्' इत्युक्ते वीणां विनैवेति प्रत्ययादवैलक्षण्यम् । तस्मादाद्येन प्रकारेण प्रकारान्तराणामालीढत्वात्षट् प्रकारा इत्यनुपपन्नमेव । यदि तु यथाकथंचित्कुवलयानन्दोक्तिः समर्थनीयेत्याग्रहस्तदेत्थं समर्थ्यताम्-तथा. हि विनापि कारणं कार्यजन्मेति विभावनायाः सामान्यलक्षणम् । इयं च तावद्वेधा-शाब्दी, आर्थी च । शाब्दी शाब्दी आर्थी चेति । अत्र केचित्--शाब्दत्वे आद्या।आर्थत्वे उत्तराः पञ्च । तत्र