पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। 'विनैव शस्त्रं हृदयानि यूनां विवेकभाजामपि दारयन्त्यः । अनन्तमायामयवल्गुलीला जयन्ति नीलाब्जदलायताक्ष्यः ॥ अत्र हि दारणे शस्त्रं कारणम् । तदभावेऽपि दारणमुपनिबध्यमानमापाततो विरुद्धमपि कामिनीविलासरूपहेतुकतया पर्यवस्यति । नन्वत्र यस्य कार्यस्योत्पत्तिर्निबध्यते नहि तदीयकारणत्वेनावगतस्य व्यतिरेकः प्रतीयते । यदीयकारणव्यतिरेकश्च प्रतीयते नहि तस्य कार्यस्योत्पत्तिनिबध्यते । दारणं चेह पीडाविशेषो विवक्षितः, न तु द्विधाभावः । शस्त्रं च न कामपीडायाः कारणम्, अपि तु द्वैधीकरणस्येति चेत्, न । मुख्य हि दारणं द्विधाभावनम् । गौणं च कामादिजनितपीडाविशेषः । तयोर्गौणमुख्ययोर्दारणयोः सादृश्यमूलेनाभेदाध्यवसानरूपेणातिशयेन सति भेदस्थगने द्विधाभावनकारणमपि शस्त्रं कामपीडाकारणं संपद्यते । तदभावे चात्र कार्याभिन्नतयाध्यवसितस्य पीडाविशेषस्योपनिवन्धनान्न दोषः । एवं चास्मिन्नलंकारे सर्वत्रापि कार्यांशे अभेदाध्यवसानरूपातिशयोक्तिरनुप्राणकतया स्थिता । तया च पायसादिपिण्डवदेकीकृतस्य वस्तुतः सदृशवस्तुद्वयस्यैकावयवसंबन्धिकारणव्यतिरेकसामानाधिकरण्येनापरावयवमादाय पर्यवसानं भवति । तत्र च कार्याशः कारणभावरूपविरोधिनो बाध्यतयैव स्थितः, न बाधकतया । कार्यांशस्य कल्पितत्वात्कारणाभावस्य च स्वभावसिद्धत्वात् । अत एव कार्यांशो रूपान्तरेण पर्यवस्यति । अत एव च समबलविरोधिद्वयघटिताद्विरोधालंकारादस्य वैलक्षण्यम् । तथा चोक्तम्- 'कारणस्य निषेधेन बाध्यमानः फलोदयः । विभावनायामाभाति विरोधोऽन्योन्यबाधनम् ।।' इत्याहुः । अथातिशयोक्तिर्न सर्वस्यां विभावनायामनुप्राणिका । किं तु क्वचित् । 'निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ।' प्राग्वदाह-अथेति । सादृश्येमूलेनेति । श्लेषमूलेनेत्यपि बोध्यम् । कार्याभिन्नतयेति । शस्त्रकाद्विधाभावेनाभित्रतयेत्यर्थः । वस्तुतः सहशवस्तुद्वयस्येति । इदं षष्ठयन्तं पर्यवसानमित्यत्रान्वेति । तत्र सामानाधिकरण्येनेत्यन्तं हेतुः ।