पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। ४२७ अथ विरोधमूलालंकाराः- एकाधिकरणसंबद्धत्वेन प्रतिपादितयोरर्थयोर्भासमानकाधिकर- णासंबद्धत्वमेकाधिकरणासंबद्धत्वभानं वा विरोधः। यहा- एकाधिकरणासंबद्धत्वेन प्रतिपादनं सः । स च प्ररूढोऽप्ररूढश्च । प्ररोहश्च बाधबुद्धयनभिभूतत्वम् । तद्वैपरीत्यमप्ररोहः । तत्राद्यो दोषस्य विषयः, द्वितीयश्चालंकारस्य । अत एवेमं विरोधाभासमाचक्षते । आ ईषद्भासत इत्याभासः । विरोधश्चासावाभासश्चेति । आमुख एव प्रतीयमानो झगिति जायमानाविरोधबुद्धितिरस्कृत इति यावत् । तत्रापि कार्यकारणादिबुद्ध्यनालीढो विरोधाभासो विरोधालंकारः । तदालीढस्तु विभावनादिर्वक्ष्यमाणः । अस्य च जातिगुणक्रियाद्रव्याणां पदार्थानां मध्ये जातेर्जातिगुणक्रियाद्रव्यैः, गुणस्य गुणक्रियाद्रव्यैः, क्रियायाः क्रियाद्रव्याभ्याम्, द्रव्यस्य द्रव्येणेत्यपुनरुक्ता दश भेदाः । क्रिया चात्र न वैयाकरणानामिव शुद्धा भावना । नापि नैयायिकानामिव स्पन्दरूपा । किं तु तत्तद्धातुवाच्या विशिष्टव्यापाररूपा । उदाहरणम्- 'कुसुमानि शरा मृणालजालान्यपि कालायसकर्कशान्यभूवन् । सुदृशो दहनायते स्म राका भवनाकाशमथाभवत्पयोधिः ॥' अत्र पुरः स्फुरन्नपि जात्यादीनां विरोधो विरहिणीदुःखजनकत्वविमर्शनान्निवर्तते । 'त्वयि दृष्टे त्वया दृष्टे भवन्ति जगतीतले । महान्तोऽप्यणवो राजन्नणवश्च महत्तराः ॥' 'खलानामुक्तयो हन्त कोमलाः शीतला अपि । हृदयानीह साधूनां छिन्दन्त्यथ दहन्ति च ॥ प्राग्वदाह-अथेति । संबद्धत्वेन प्रतीति । शनिरशनिश्चेत्यादि वारणायेदमिति कश्चित् । विनिगमनाविरहादाह-एकाधीति । तयोस्तत्वेन भाने भ्रममलकत्वादाह-यद्वेति । विषय इत्यस्याग्रेऽप्यनुषङ्गः । कालायसं लोहम् । देव राजन् ।