पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

रसगङ्गाधरः। 'त्वां गीर्वाणगुरुं सर्वे वदन्तु कवयस्तु ते । समानकक्षस्तेनासीत्येषोऽर्थस्तु मतो मम ॥' अत्र कवेर्वाक्ये बाधितत्वादाभासरूपो नाहं कविरिति निषेधो गम्यमानो मिथ्यावादित्वाभावरूपेण पर्यवसन्नुत्तरार्धार्थस्य सत्यतारूपं विशेषं गमयति । इत्थं स्वस्वाभिमानभेदादाक्षेपाणां भेदात्तद्ध्वनीनां स्थिते विवेके- 'स वक्तुमखिलाञ्शक्तो हयग्रीवाश्रितान्गुणान् । योऽम्बुकुम्भैः परिच्छेदं ज्ञातुं शक्तो महोदधेः ॥' इति पद्यं ध्वनिकारैराक्षेपध्वनित्वेनोदाहृतं 'स्वाभिमताक्षेपानभिव्यक्तेर- नुदाहरणमेवैतत्' इति नियुक्तिकं वदन्नलंकारसर्वस्वकृत्परास्तः । नह्याभासरूप एव निषेध आक्षेप इत्यस्ति वेदस्याज्ञा । नापि प्राचामाचार्याणाम् । न चापि युक्तिः । येन ध्वनिकारोक्तमुपेक्ष्य त्वदुक्तं श्रद्दधीमहि । प्रत्युत वैपरीत्यमेवोचितम् । ध्वनिकृतामालंकारिकसरणिव्यवस्थापकत्वात् । नह्यस्मिशास्त्रे आक्षेपादिशब्दसंकेतग्राहकं प्रमाणान्तरमस्ति । ऋते प्राचीनवचनेभ्यः । अन्यथा सकलविपर्यासापत्तेः । यत्तु- 'नरेन्द्रमौले न वयं राजसंदेशहारिणः । जगत्कुटुम्बिनस्तेऽद्य न शत्रुः कश्चिदिष्यते ॥' इति पद्यमलंकारसर्वस्वकारमतेनोदाहृत्येत्थमुक्तं कुवलयानन्दकता- 'अत्र संदेशहारिणामुक्तौ न वयं संदेशहारिण इति निषेधोऽनुपपन्नः संधिकालोचितकैतववचनपरिहारेण यथार्थवादित्वे पर्यवस्यन्सर्वजगतीपालकस्य तव न कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्यभावेन संरक्षणीया इति विशेषमाक्षिपति' इति, तन्न । त्वदुक्तस्य विशेषस्य निषेधाव्यङ्गयत्वात् । नहि न वयं राजसंदेशहारिण इत्युक्ते तव न कश्चिदपि शत्रुभावेनावलोकनीयः किं तु सर्वेऽपि राजानो भृत्य- त्रिध्वनुषङ्गः । वैदुष्यं पाण्डित्यम् । सर्वस्वकारः परास्त इति । तद्गुणवक्ता नास्तीति निषेधस्य गुणापरिमितत्वव्यङ्गयसहितस्याक्षेपरूपस्य व्यङ्गयस्य सत्त्वादिति भावः । अलंकारसर्वस्वकारस्तु-निषेधाभास आक्षेपः । 'नाहं दूती तनोस्तापस्तस्याः कालानलोपमः' इत्युदाहरणमिति । तस्यायं भावः-यो निषेधो बाधितः सन्नर्थान्तरपर्यवसितो