पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। यदि तु 'त्वत्पादनखरत्नानि यो रञ्जयति यावकैः । इन्दुं चन्दनलेपेन पाण्डुरीकुरुते हि सः ॥' इति पद्यं निर्मीयते तदा निदर्शना युक्ता । न चास्मदुक्ता वाच्या निदर्शना, इयं तु प्रतीयमानेति वाच्यम् । 'मुखं चन्द्र इव' इति वाच्योपमा, 'मुखं चन्द्रः' इति प्रतीयमाना । न त्वलंकारान्तरम् । इत्यस्यापि सुवचत्वात् । एवं चारोपाध्यवसानमार्गबहिर्भूत आर्थ एवाभेदो निदर्शनाजीवितम् । स च कर्ताद्यभेदप्रतिपादनद्वारा प्रतिपाद्यते वाक्यार्थनिदर्शनायाम् । अत एव मम्मटभट्टैरुदाहृतम्- 'क्व सूर्यप्रभवो वंशः क्व चाल्पविषया मतिः । तितीषुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥' इति । नन्वत्र निदर्शना नैव संगच्छते । विषयिण उपादानेऽपि विषयस्यानुपात्तत्वात् । उभयोपादानं हि तत्रावश्यकम् । अतो ललितालंकार उचित इति चेत्, ललितालंकारनिराकरणावसर एवैतद्वयक्तमुपपादयिष्यामः । परे तु 'त्वत्पादनखरत्नानां-' इत्यत्र दृष्टान्तालंकारमाहुः । तदप्यसत् । बिम्बप्रतिविम्बभावापन्नपदार्थघटितस्य निरपेक्षवाक्यार्थद्वयस्यैव दृष्टान्तत्वात् । तस्मात् 'त्वत्पादनखरत्नानां' इत्यत्र वाक्यार्थरूपकमेव । न निदर्शनेति स्थितम् । एवमसंभवद्वस्तुसंबन्धनिबन्धना पदार्थवाक्यार्थनिदर्शना दर्शिता । वाच्च । किं च त्वदुदाहृते कर्त्रो रूपकमेवास्तु । प्रतीयमानोऽपि क्रिययोरभेदो विशिष्टरूपके विशेषणाभेदवन्नालंकारान्तरम् । अन्यथा अलकावृतकामिनीमुखं भ्रमद्भ्रमरसंभारं पद्ममित्यादौ अलकभ्रमरयोरभेदस्याप्यलंकारान्तरत्वं स्यात् । तस्माद्गम्यतामात्रेणालंकारान्तरतेति रिक्तं वचः । ननु प्राचीनैरलंकारान्तरत्वेन परिगणनात् गम्यत्वेऽयम्, वाच्यत्वे रूपकमित्युच्यते तर्हि प्राचीनसेतुविघटनं व्यर्थमेवेति बोध्यमिति । यावकैरलक्तकैः । प्रतीयमानेति । उपमेत्यस्यानुषङ्गः । उपसंहरति-एवं चेति । अत एव अस्यास्तदुभयबहिर्भूतनिमित्तकत्वेन प्रागुक्तभवदीयोदाहरणासंभवादेव । तत्र