पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३११

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

काव्यमाला। प्यनुग्रह एव न्याय्यः। भावप्रधानमाख्यातम्' इत्यस्य 'भावनार्थको धातुः' इत्यर्थकरणान्न विरोधः । न च वैयाकरणमतविरोधो दूषणमिति वाच्यम् । स्वतन्त्रत्वेनालंकारिकतन्त्रस्य तद्विरोधस्यादूषणत्वात् । प्रपञ्चयिष्यते चैतदधिकमुपरिष्टादिति प्रकृतमनुसरामः। एवं च 'लिम्पतीव-' इत्यादौ भेदेनाभेदेन वा तिर्ङ्थस्यैव प्रथमान्तार्थ एवोत्प्रेक्षणम् । न तु धात्वर्थस्य स्वनिगीर्णे व्यापनादौ । सर्वजनसिद्धाया इवार्थस्य विधेयताया अनुपपत्तेः । तमःकर्तृकं लेपनमिवेत्यस्मादपि उद्देश्यबोधकशून्यवाक्यादुत्प्रेक्षाप्रतीत्यापत्तेश्च । यदि च विषयिसंबन्धिना लेपनादिना विषयसंबन्धिनो व्यापनादेर्निमित्ततासंपत्तये रचताद्रूप्यसंपादनेन निगीर्णत्वादनुपात्तविषयत्वमध्यवसानमूलत्वं चोच्यते तदा रूपकेऽप्यनुपात्तविषयत्वमुच्यतामध्यवसानमूलत्वं च । 'लोकान्हन्ति खलो विषम्' इत्यादौ खलसंबन्धिनो दुःखदानादेर्विषसंबन्धिहननात्मनाध्यवसानात् । तस्मान्निमित्तांशेऽतिशयोक्तिरेव । एवम् 'उन्मेषं यो मम न सहते' इत्यत्र लक्ष्मीरूपे विषये लगनहेतुत्वेन हर्ष उत्प्रेक्ष्यते । तत्र साहजिकसंबन्धे तादात्म्येनाध्यवसितं लगनमेव निमित्तम् । तथा- त्तेरिति भावः । प्राग्वदत्रापि मते निरुक्तविरोधं प्रकारान्तरेण परिहरति-भावेति । पूर्वमाख्यातपदेन तिङ् गृहीतः, इदानीं धातुरितिं विशेषः । ननु वैयाकरणमतरीत्या तथा प्रागुक्तमिति तद्विरोधोऽत आह-न चेति । पूर्वमतेनाह-भेदेनेति । द्वितीयमतेनाह-अभेदेनेति । क्रमेणैवद्वयव्यवच्छेद्यमाह-न त्विति । इवार्थस्य विधेयताया इति । विषयनिष्ठोद्देश्यतानिरूपितमिवार्थसंभावना विषयः । विषयिणो लेपनादेः प्रतीपमानं यद्विधेयत्वं तस्य भङ्गापत्तेरित्यर्थः । विषयस्य विषयिवाचकेन तव मते निगीर्णत्वादिति भावः । ननु निगीर्णमेव गृहीत्वा तदभङ्गोऽत आह- तम इति । अनुवादपुरःसरं दोषान्तरमाह-यदि चेति । विषयीति । विषयिणा तमःसंबन्धिनेत्यर्थः । एवं विषयसंबन्धिन इत्यपि व्याख्येयम् । स्वेति । लेपनेत्यर्थः । रूपकेऽपीति । प्रसिद्धरूपके मुखचन्द्र इत्यादावपीत्यर्थः । विषयानुपादानेनेति भावः । मूलत्वं च लोकानिति । इत्यादौ तन्मूलत्वं चोच्यतामित्यर्थः । अत्र हेतुमाह- खलेति । उपसंहरति-तस्मादिति । हेतूत्प्रेक्षायामाह-एवमिति । तत्र तस्यामुत्प्रेक्षायाम् । संबन्धे शोभासंबन्धे । लगनमेव । हर्षहेतुकं लगनमित्यर्थः । उदाहरणा-