पृष्ठम्:रसगङ्गाधरः (नागेशभट्टकृतटीकासहितः).pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

। l रसगङ्गाधरः। २८९ क्रियास्वरूपोत्प्रेक्षा यथा- 'कलिन्दजा नीरभरेऽर्धमग्ना बकाः प्रकामं कृतभूरिशब्दाः। ध्वान्तेन वैराद्विनिगीर्यमाणाः क्रोशन्ति मन्ये शशिनः किशोराः॥' अत्र प्रथमान्तविशेष्यकबोधवादिनामभेदसंसर्गेण कलिन्दजानीरार्धमग्नकृतभूरिशब्दोभयविशिष्टेषु बकेषु विषयेषु ध्वान्तकर्तृकवैरहेतुकनिगरणकर्माभिन्नोत्प्रेक्षितशशिकिशोरतादात्म्योत्प्रेक्षणपूर्वकं क्रोशनकर्तृत्वं धर्म उत्प्रेक्ष्यते । तत्र तादात्म्योत्प्रेक्षणे धर्म्युत्प्रेक्षायां साधारणो धर्मः, संबन्धान्तरेणोत्प्रेक्षणे धर्मोत्प्रेक्षायां तत्समानाधिकरणो धर्मश्च विषयगतो निमित्तमिति स्थिते प्रकृते क्रोशनकर्तृत्वरूपधर्मोत्प्रेक्षायां तत्समानाधिकरणनिगरणकर्मत्वरूपधर्मस्य विषयगतत्वसिद्धयेऽनुवाद्यतया शशिकिशोरतादात्म्यमनुपात्तश्चैत्यनिमित्तकमुत्प्रेक्ष्यते । तत्र यथा विशिष्टोपमायामुपमानोपमेयविशेषणतद्विशेषणानामार्थमौपम्यम्, एवमत्रापि विषयबक- विशेषणतद्विशेषणयोरर्धमज्जनयमुनाजलयोर्मूलोत्प्रेक्षा विषयिशशिकिशोरविशेषणतद्विशेषणाभ्यां निगरणध्वान्ताभ्यामभेद आर्थः । ततश्च ध्वान्त- कर्तृकनिगरणे सिद्धे मुख्योत्प्रेक्षानिर्वाहः । क्रोशनशब्दयोरपि बिम्बप्रतिबिम्बभावेनाभेदः । तेन कलिन्दजातीरार्धमग्नकृतभूरिशब्दोभयाभिन्ना बका ध्वान्तनिगीर्यमाणशशिकिशोरोभयाभिन्नाः क्रोशनक्रियानुकूलव्यापारवन्त इवेति बोधाकारः । आख्याते भावप्राधान्ये त्वभेदेन क्रोशनक्रि- आह-पूर्व हीति । कृतभूरीति । यो निमज्जति स शब्दं करोतीति लौकिकम् । वादिनामित्यस्य धर्म उत्प्रेक्ष्यत इत्यत्रान्वयः । शानजर्षमाह-कर्मेति । तदभिन्नत्वे. नोत्प्रेक्षितेत्यर्थः । अत्रोत्प्रेक्षितेत्यधिकम् । तयोरभेदस्य स्वारसिकत्वात् । तत्र उत्प्रेक्षयोर्मध्ये । पूर्वामाह-तादेति । द्वितीयामाह-संबेति । विषयेति । बकेत्यर्थः । तत्कृतचमत्काराभावादाह-अनुवाद्येति । उत्प्रेक्ष्यते । बकेष्विति शेषः । नन्वेवमपि साधारणधर्माभावात्कथं प्रधानोत्प्रेक्षानिर्वाहोऽत आह-तत्रेति । तस्मिन्सतीत्यर्थः । मूलोत्प्रेक्षेति । मूलोत्प्रेक्षाया विषयी यः शशिकिशोर इत्याद्यर्थः । क्रियोत्प्रेक्षोपपादकत्वात्तस्या मूलोत्प्रेक्षात्वम् । सिद्ध इति । बकानामित्यादिः । मुख्योत्प्रेक्षेति । क्रियोत्प्रेक्षेत्यर्थः । प्रकारान्तरेणापि साधारण्यं धर्मस्याह-क्रोशनेति । शशिकिशोरोभयानुकूलकोशेति । 'निगीर्यमाणाभिन्नशशिकिशोराभिन्नाः क्रोशनक्रियानुकूल-' इति युक्तः पाठः । एवं नैयायिकमतेन बोधमुक्त्वा वैयाकरणमतेनाह-आख्यात इति